śrīnivāsacampū /140
This page has been fully proofread once and needs a second look.
श्रीनिवासः - क्व स्थितिर्युवयोः ।
द्वावपि भणतः-
'नदी वेगवती दिव्या नागाचलविभूषणम् ।
देवं स्यात्तारकानन्दो यत्र सा नः पुरी प्रभो ॥ ५ ॥
श्रीनिवासः - तत्र [^१]कीदृग्राजा ।
द्वावपि -
अहीनगुणभृद्भाति नरानुग्रहकारकः[^२] ।
गजदानधुरीणश्च तत्रत्यो राजशेखरः ॥ ६ ॥
श्रीनिवासः – प्रजा च कीदृशी ।
द्वावपि -
उज्जृम्भन्मालती मौलौ भोगिभोगाः करे स्थिताः ।
उत्तंसे चाब्जकलिका यत्र संस्थितिशालिनाम् ॥ ७ ॥
'नदी -' इत्यादिश्लोकत्रयमुभयपरमिति ज्ञेयम् । तथाह्यर्थः – यत्र काञ्चयाम् ।
वेगवत्यभिधाना नदी दिव्येति भक्तिवादः । नागाचलो हस्तिगिरिस्तस्य भूषण-
स्थानीयम् । दैवं वरदराजः । तारका कनीनिका । चक्षुरानन्दजननी काञ्चीति
भावः । सा पुरी काञ्ची नोऽस्माकमिति एकस्याभिप्रायः । यत्र काश्यां वेगवती
दिव्या नदी अमर्त्यतरङ्गिणी भागीरथी । वर्तत इति शेषः । नागाः सर्पा एवा-
चञ्चलालंकारी यस्य स विश्वनाथः । सततधारणयोग्यत्वात्सर्पालंकारस्याचलत्वं
न तु जडत्वेन । तारकमन्त्रोपदेशेनानन्दः । सा पुरी काशी । द्वितीयस्याभि-
संधिः । इत्यत्र 'द्वावपि भणतः' इत्युक्तम् ॥ ५ ॥ राजशेखरो भूपश्रेष्ठः । गज-
दानं करिवितरणम् । अन्यत्स्पष्टम् । इति काञ्चीपक्षे । पक्षे चन्द्रचूडः । अहीनां
सर्पाणामिनः श्रेष्ठः शेषः स एव गुणो मौर्वी तं बिभर्तीति तथोक्तः । नरोऽर्जुनः ।
ग<flag></flag>दानं गजासुरखण्डनम् । 'इनः सूर्ये प्रभावपि इति ॥ ६ ॥ यत्र काञ्चयाम् ।
संस्थितिर्वासः । उज्जृम्भन्ती जृम्भणोन्मुखी । मालती जातिपुष्पम् । सर्वे शृङ्गा-
[^९.] 'कीदृशो' ख.
[^२.] 'कातरः' ख.