2023-08-30 15:23:08 by jayusudindra

This page has been fully proofread once and needs a second look.

किं च, सगदः कुमुदक एव । पुण्यजनद्वेषिणी कौमोदक्येव । नाभि-
जातः सनदेव । अप्रमदः सनत्कुमार एव । उग्रप्रियाः पशव एव । विष-
मदृष्टिः पशुपतिरेव ।
अपि च, मधुस्थितिः सरसिजेषु । मागधोल्लासः स्तुतिपाठसमये ।
रसभङ्गयुक्तत्वं तरङ्गिणीषु । कुप्रीतिर्महावराहस्य । कुमारिकाख्यातिः
कन्यानाम् । कुमुदाकरत्वं सरसाम् । विषमहितता सर्पाणाम् । दुष्कीर्तिः
कुल्यासु । दुर्बीजदर्शनं मन्त्रशास्त्रे । कुशासनग्राहित्वं तापसानाम् । सवि-
तृद्वेषः सैंहिकेयस्य । मातृविरोधः शुम्भस्य ।
किं च, कुवेण्याख्या-मत्स्याधान्या न वनितानाम् । विकचासङ्गो ग्र-
हाणां न यूनाम् । पराभवः संवत्सरेषु न सैन्यस्य ।
विनायकत्वं गरुडेभवक्त्रतथागतेप्वेव मुहुर्ललास ।
सभासु सेनासु नितम्बिनीषु माणिक्यमालासु न वै बभूव ॥ ६ ॥
 
'असमरसाहसोचितः' इति वासवदत्ता । किं च सगद इति । सगदः सरोगः
सकौमोदकीकश्च । कुमोदको विष्णुः । अत एव कौमोदकी विष्णुगदा । सनत्
चतुर्मुखः । अत एव 'सनत्कुमारो वैधात्रः' । पशवः प्रमथाः । अत एव पशुपतिः
शिवः । कुमोदकसनत्पशुपशब्दानामप्रसिद्धत्वात्तदर्थज्ञापनार्थं कौमोदकीसनत्कु-
मारपशुपतिशब्दास्तत्तदग्रे प्रयुक्ताः । 'विष्णुः कुमोदकः शौरिः' इति दुर्गः । 'हंसगो
द्रुहिणः सनत्' इति रभसः । 'पशुर्मृगादौ छगले प्रमथेषु पुमानयम्' इति च ।
अपि चेति । मधुदैत्यभेदः क्लीबे मकरन्दश्च । मागधो जरासंधः सुतिपाठ-
कश्च । 'भङ्गस्वरङ्गभेदे च रुग्विशेषे' इत्यादि हैमः । कुः पृथ्वी । पक्षे 'पापकु-
त्सेषदर्थे कुः' इत्यमरः । कुत्सितमारिका कुत्सितमुदामाकरत्वम् । दुरिति दुर्गाम-
न्त्रबीजाक्षरम् । 'सत्ताबीजं च दुर्बीजं इति तन्त्रसारे । कुशे कृतासनम् । 'जनक:
सविता पिता' इति धनंजयः । मातरो ब्रह्माण्याद्याः । विकचा विधवा । 'शुक्रे
केतौ च विकचः' इति विश्वः । 'विनायकस्तार्क्ष्यविघ्नविघ्नेशेषु गुरौ जिने' इति
लिङ्गाभट्टः । 'नायको नेतरि श्रेष्ठे हारमध्यमणावपि इति विश्वः । तथागतो