śrīnivāsacampū /139
This page has been fully proofread once and needs a second look.
द्वितीयः-
कलापैः कलापी च तार्क्ष्येण तार्क्ष्यी लसन्मौलिकोद्दामहारेण हारी।
रमाकाश्यपीचार्वपाङ्गैरपाङ्गी स देवोऽस्तु मद्वाचि दत्तावधानः ॥४॥
श्रीनिवासः – निर्वृता वयमाशीर्भ्याम् ।
प्रथमः – भवद्द्वेषिणश्च ।
द्वितीयः– सदाश्लेषविचक्षणो भवानिति द्रष्टुमुत्कण्ठितं नश्चेतः ।
तच्छ्रुत्वा साहित्यसारमञ्जूषा कमलिनी प्राह - 'न केवलं वचसा-
मेव, किं तु वनितानामपि ।'
श्रीनिवासः - बहुवचनेनालं कुप्येद्देवी ।
कमलिनी [^१]– देव, कुपिता कुलजा कान्ता तप्तकनकमालिकेव
कोपागमेsधिकां रुचिं वहति ।
वां युवयोः । शङ्खानां वलयानां चक्रं समूहस्तद्युक्तः अब्जकरो यस्या इत्याद्य-
पक्षे । 'शङ्खो ललाटास्थनि च वलये चास्त्रियाम्' इति । पक्षे स्पष्टम् । यात्रा
गमनम् । पक्षे - दिग्विजयार्थं गमनम् । हंसो दैत्यभेदः । 'स्त्रीस्तनाब्दौ पयोधरौ'
इत्यमरः ॥ ३ ॥ कलापैरिति । बर्हैर्बर्हवानिति चमत्कारार्थः । भूषणवा-
निति तत्त्वार्थः । अग्रेऽप्येवमेव । 'कलापो भूषणे बर्हे' इत्यमरः । तार्क्ष्योऽस्या-
स्तीति तार्क्ष्यी गरुडवान् । पक्षे तुरङ्गी । 'तुरङ्गगरुडौ तार्क्ष्यौ' इत्यमरः । हारी
हारवान् । पक्षे-मनोहरः । 'वक्षोजौ तव हारिणौ' इति चन्द्रालोके । अपग-
तमङ्गं शरीरं यस्य सोऽपाङ्गो मदनः । तद्वान् । कामीत्यर्थः । काश्यपी क्षितिः
॥ ४ ॥ 'सुखनाशौ तु निर्वृती' इति । 'आशीरुरगदंष्ट्रायां शुभवागभिलाषयोः'
इति । श्लेषोऽलंकारभेदो वचःपक्षे । वनितापक्षे तु-आश्लेष आलिङ्गनम् । कुपि
तेति । रुचिमभिलाषं कान्ति च । 'अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः
स्त्रियाम्' इत्यमरः । 'यत्काञ्ची काशी च युगपद्वर्णिता' इति वक्ष्यमाणत्वांत्
[^१.] 'कमलिनी' इत्यस्य पूर्ववाक्यान्वितत्वं परिकल्प्य 'प्रथमः -' इत्यपि वर्धितं क्वचित्.

[^१