śrīnivāsacampū /138
This page has been fully proofread once and needs a second look.
गदः पुरंदरः, नागदो गरुडः । अयं भोगहृद्यो वासुकिः, नभोगहृद्यः
सूर्यः । त्रिनयनसमुद्भवः स्कन्दः, अत्रिनयनसमुद्भवश्चन्द्रः । सत्रिन-
न्दन ऋष्यशृङ्गः, अत्रिनन्दनो दुर्वासाश्च' इति निवेदयति वेत्रपाणौ
'तालललिते तिवर्धितरागे शंकराभरणमिलिते चित्ररथगाने भव दत्ताव-
धानः' इति संप्राप्तहरितत्वे ऋषिरूपे, तथैव 'तादृशे पद्मावतीस्तनद्वन्द्वे
च' इति पक्षिरूपे भणति शुके, 'सूर्यनन्दनत्वान्मन्दः' इति च्छाया-
पुत्रं 'नतापकारित्वात्कलङ्की' इति चन्द्रं 'सहेतित्वात्कृशानुभावमावदति'
इत्यग्निमपहसत्सु विदूषकेषु, उद्यानद्वारपः सविनयं व्यजिज्ञपत्-
'देव, द्वौ भूदेवावागतौ देवं द्रष्टुमिच्छतः ।'
श्रीनिवास : – शीघ्रं प्रवेशय ।
ततस्तावागत्य यथाविधि कृतोपचारावुपविशतः स्मः ।
प्रथमः-
शङ्खचक्राब्जकरयोर्यात्रात्रासितहंसयोः ।
लसत्पयोधरद्युत्योर्दम्पत्योर्भद्रमस्तु वाम् ॥ ३ ॥
तम्बोऽद्रेः' इत्यमरः । 'देवो मेघे सुरे राशि' इति सुधा। अगं पर्वतं यति खण्डय-
तीत्यगदः, नागदः सर्पखण्डकः । भोगः फणा । नभसि गच्छन्तीति नभोगाः ।
चन्द्रोऽत्रिनेत्रादुत्पन्न इत्यार्याः । 'नयनसमुदितं ज्योतिरत्रेः' इति जगद्धरः ।
सत्रिणो यज्वानः । नन्दको हर्षकः । तालललितेत्यादिविशेषणत्रयं गानस्य
स्तनस्य चेति बोध्यम् । तालः कालक्रियामानम् । पक्षे वृक्षभेदस्तेन तत्फलं
ग्राह्यम् । रागो भैरवादिः पक्षे - अनुरागः । शंकराभरणं रागभेदः । पक्षे सुख-
करालंकारः । 'शुकः स्याद्रक्षति मुनौ कीरे' इति रत्नमाला । हरेर्नारायणस्य
तत्त्वमनारोपितत्वं विष्णुस्वरूपमिति यावत् । पक्षे हरिद्वर्णत्वम् । सूर्येत्यादिवाक्य-
त्रये हास्यरसो ज्ञेयः । सूरीणां ज्ञानिनां अनन्दनत्वान्मन्दो निर्भाग्यः इति हास्यम् ।
तत्त्वार्थस्तु सूर्यपुत्रत्वाच्छनिरिति । एवमग्रेऽपि । नतानामपकारी । कलङ्की
अपवादयुक्तः । पक्षे तापकारी न, चिह्नवान् । ईतिः पीडा तया सहितः सहेतिः;
कृशानुभावं अल्पसामर्थ्यम् । पक्षे हेविर्ज्वाला, कृशानुरग्निरिति । शङ्खेति ।