śrīnivāsacampū /137
This page has been fully proofread once and needs a second look.
श्रीनिवासविलासचम्पूः ।
उत्तरभागः ।
प्रथमोल्लासः ।
छत्री यस्त्वचलेन गोपरमणीवक्षोरुहैः कन्दुकी
यो वै कालियनागनायकफणाभोगेन रङ्गी च यः ।
देवैः किंकरिणेsब्धिना भवनिने नागेन पर्यङ्किणे
कालेनायुधिनेऽण्डजेन रथिने देवाय तस्मै नमः ॥ १ ॥
सर्वत्र सुमनोवृन्दे रससौरभ्यशालिनि ।
पद्मं नृसिंहसूरिश्च ममामोदाय कल्पते ॥ २ ॥
अथ कदाचित्स्वामिसरसो नातिदूरे कस्मिंश्चिल्लतामण्डपे श्रीमत्या पद्मा-
वत्या सह विहरति तत्रभवति श्रीनिवासे, 'देव, इतः किंचित्प्रसरतु
दृष्टिः । प्रणमत्ययमत्र विपुलकटकोन्नतिर्गाधिराजः अत्र नगाधिराजश्च
भूभृत् । अत्रायं महाप्रतापशाली नलः, अत्रायमनलो देवः । अत्रायम-
उत्तरविलासः प्रारम्भः ।
छत्रीति । अचलो गोवर्धनगिरिः, तेन छत्रवान् । रङ्गो नर्तनस्थानम् । नागः
शेषः । कालो दुर्गा देवी । आयुधं सुदर्शनाख्यं यस्य । 'करालोलं चक्रं कालः
इति यमकभारतम् । 'कालः कालनाम्नी दुर्गा' इति यदुपतिटीकायाम् । यद्वा -
कालः कालचक्रम् । 'कृष्णस्यैतन्न चित्रं क्षितिभरहरणं कालचक्रायुधस्य' इति
श्रीभागवतम् ॥ १ ॥ सर्वत्रेति । सुमनसः पुष्पाणि भूदेवाच । रसो द्रवः ।
मकरन्द इति यावत् । नवरसः प्रेम वा । सौरभ्यं परिमलः पक्षे चारुत्वम् ।
ताभ्यां शालि शोभमानम् । 'चारुत्वमपि सौरभ्यम्' इति रत्नमाला । 'शृङ्गारादौ
विषे वीर्ये गुणे रागे द्रवे रसः' इत्यमरवैजयन्त्यौ । 'आमोदो गन्धहर्षयोः' इति
<flag></flag> ॥ २ ॥ तत्रभवान्पूज्यः । 'देवेतः किंचित्प्रसरतु दृष्टिः' इत्यस्य ' इति निवे-
दयति वेत्रपाणौ' इत्यग्रे वक्ष्यमाणेनान्वयः । गाघिः राजभेदः । नगाधिराजो
हिमवान् । 'सैन्ये च कटकोऽस्त्रियाम्' इति पदरत्नावली । पक्षे- 'कटकोऽस्त्री नि-