2023-09-08 06:57:50 by jayusudindra

This page has been fully proofread once and needs a second look.

गुरुगुरुकृपयायं दुष्करं स्तोकलोकैः
प्रकटितनिजकीर्तिः सादरं वेङ्कटेशः ।
चिरसमयहृदिस्थं पूरयन्काव्यमेत-
त्कविरिव च तदिष्टं श्रीनिवासः कृतार्थः ॥ २६ ॥
 
इति श्रीमच्छ्लेषकाव्यपारावारगमननौकायमानचरणाभिवन्दन.
नृकण्ठीरवाचार्यसूरिहीरान्तेवास्यन्यतमस्याक्लिष्टश्लिष्टरचनापटोः
स्वकीर्तिकदम्बधवलितदिग्भित्तिवेङ्कटगिरिनिवासिवेङ्कटक्ष्मापा-
लयुगलाश्रितस्याप्रयासापादितसाहित्यकलस्य
कविमशकशिशोर्देशिचरणसरसीरुहसमर्पितनिजसुकृतस्य वेङ्कटेशस्य कृतिषु
पूर्व श्रीनिवासविलासो नाम श्लेषोत्तरकाव्यबन्धः पर्याप्तः । पञ्चम
उच्छ्वासोऽयम् ।
 
पूर्वार्ध: समाप्तः ।
 
भावो नाशरहितसुहृद्भावः । पक्षे - अनुग्रवर्णशय्या (१) संदर्भः ॥ २५ ॥ गुर्विति ।
स्तोकलोका अल्पजनाः ॥ २६ ॥ इतीति । श्रीमदिति । नृकण्ठीरव आचार्यः
कवेर्गुरुः । अन्यतमो यः कश्चित् । वेङ्कटगिरिः शेषाचलो ग्रामभेदश्च । वेङ्कटक्ष-
मापाल: श्रीनिवासः देशमुखवेङ्कटरायश्चेति युगलम् । कविमशकशिशुरिति स्वाहं-
कारखण्डनोक्तिः । पूर्वश्रीनिवासविलास इत्यनेन 'उत्तरश्रीनिवास विलासोऽप्यस्ति'
इत्युक्तं भवति ॥
 
इति श्रीधरणीधरभूपविरचिता पूर्वश्रीनिवासविलासव्याख्या पर्याप्ता ।