śrīnivāsacampū /135
This page has been fully proofread once and needs a second look.
५ उच्छ्कञ्चुकः, इन्द्राय चामरश्रीः, चन्द्राय नक्षत्रमाला दत्ता । अन्येऽपि च
देवाः सुमनसो जाताः। परं केनचिज्जातिहीन इत्युक्तत्वाद्वसन्तोऽसुमना
आसीत् । शेषो दीर्घपृष्ठ इत्युक्तत्वादहितोल्लसितोऽभूत् । बहुभक्षणा-
द्वैश्वानरः सहेतिर्जातः । तत्र मम को वापराधः ।
अपि च देवस्य पुत्री गङ्गा नलिनी वा मालती वा न संदेहो गतः ।
अन्यच्च किंचित्कालमत्र स्थितेन भवितव्यम्' इति ।
तच्छ्रुत्वा देवोऽपि कंचित्स्मेरवदनः प्राह – 'आर्य, मनसात्रैवैनं
स्थितं जानातु भवानघुना त्वमनुजानातु वराहदेवाभिवन्दनाय यामि शे-
षाचलम्' इत्युक्त्वा च कथंकथमप्यभिनवकन्याविरहदूनौ धरावियद्भू-
पालौ सान्त्वय्य सपरिवारस्तेनाज्ञप्तः पद्मावत्या सह निर्गत्यागस्त्याश्रममा-
साद्य गरुडवर्जं सर्वानमरगणाननुज्ञाप्य फणीन्द्राचलमगमत्क्रमेण ।
तावुभौ श्लाघ्यसुरतौ सततं प्रमदोज्ज्वलौ ।
श्यामौ पद्मावतीकृष्णौ रेमाते पन्नगाचले ॥ २३ ॥
श्रीनिवासोऽन्यविद्वद्भ्योऽलंकारान्कटकादिकान् ।
कवये वेङ्कटेशाय श्लेषमेव हि दत्तवान् ॥ २४ ॥
सत्कविना येन यथा परुषाक्षरमित्रभावहृद्येन ।
जनता सुखिता सततं वेङ्कटभूपालचन्द्रेण ॥ २५ ॥
इति च । चामरा राजचिह्नव्यञ्जकाः । पक्षे-अमरा देवाः । सुमना मालती जाति:'
इति । 'दीर्घष्पृष्ठो दन्दशूको बिलेशयः' इत्यमरः । अहिता सर्पत्वम् । हेतिर्ज्वाला ।
पक्षे - ईतिः पीडा । जातिपद्मपुष्पयोर्भेदाद्विरोधः । द्वितयमपि तन्नामेति परिहारः ।
गरुडस्य सत्त्वे सर्पाचलभयाभाव इत्यतः 'गरुडवर्जम्' इत्युक्तम् । तावुभा
विति । सुरतं निधुवनम् । पक्षे सुरता देवत्वम् ॥ २३ ॥ श्रीनिवास इति ।
श्लेषमलंकारभेदम् ॥ २४ ॥ सत्कविनेति । अपरुषा कोपरहितेन । अक्षरमित्र-