2023-09-08 06:44:38 by jayusudindra

This page has been fully proofread once and needs a second look.

किं च प्रसूनानुरक्ता भृङ्गाः, न गजाः । अमानोनोल्लसिताः सुहृदः,
न वाचः । विप्रसवोल्लसिता दशाः, न स्त्रियः । मत्कुणभूषिता गज-
शालाः, न कुड्याः । अस्त्वेतत् ।
 
शश्वद्यः सुरसोर्मिकः कमलिनीवर्गं न विस्मापये-
त्तत्पाणिश्च तदीक्षणव्यतिकरो रागानुबन्धोज्ज्वलः ।
स्वीचक्रे कमलापतिस्तदुभयं पूर्वं बबन्ध स्वयं
कामार्तः किल साहसादिव गले माङ्गल्यसूत्रं ततः ॥ २१ ॥
 
ततश्चातिक्रान्ते लाजहोमविधौ वियद्भूपालः सादरं श्रीनिवासम-
जीगदत् -
 
'आशेषाचलमासमुद्रुममर क्ष्मां पालयाद्राविडं
क्षोणीशाश्वरथेभपत्तिवसुमद्राज्यं सकोशायुधम् ।
अन्यत्किंचिदपि प्रदेयमवनौ देहश्च ये बान्धवाः
सर्वं तेऽद्य समर्पितं तदधुना त्वन्मुद्रया मुद्यताम् ॥ २२ ॥
 
किं च वराहदेवो नागतः, प्रायेण भूदारतया मयि साभ्यसूय इति
भाति ।
अथ चागतेषु यथाविभवं यथोचितं सर्वेऽपि संमानिताः । शेषाय
 
लंकारः । 'भित्तिः कुड्ये च भेदे च ' इति । बन्धः काव्यादिषु प्रसिद्धश्छत्रप-
द्मादिः । विदग्धमुखमण्डनं ग्रन्थः । किं चेति । सूनो हिंसा । मानेनोना नेत्य-
मानो ना उल्लसिताश्चेति कर्मधारयः । पक्षे - अमानोनाः प्रतिषेधे । विप्राणां सवो
यज्ञः । पक्षे–प्रसवो गर्भमोचनम् । 'मत्कुणः खट्वाकीटे निर्विषाणगजे विश्मश्रु-
पुरुषे इति । शश्वदिति । शश्वत्सदा । 'शब्दार्थे पुनरर्थे च सदार्थे शश्वदुच्यते'
इति । 'शश्वद्दाता सुखं वस' इति प्रयोगश्च । सुरसा शोभनप्रीतिः । ऊर्मिलाङ्गुली-
यकं यस्मिन् । पक्षे - शोभनशृङ्गाररसतरङ्गः । कमलिनी पद्मिनी । न विस्मापये-
दिति काकुः । विस्मापयेदेव । पक्षे कं अलिनीनां भृङ्गीणां वर्ग न विस्मापयेदिति
काकुः ॥ २१ ॥ २२ ॥ अथेति । कञ्चुकः कवच इति तत्त्वार्थः । सर्पत्वग्विशेष