2023-09-08 06:33:03 by jayusudindra

This page has been fully proofread once and needs a second look.

ततः प्रथमं देवो देवीमवलोकयत् । यस्या वदनमिव कुवलयलोभ-
नीयं नयनयुगलम्, नयनयुगलवदज्जमुन्दरं वदनम् । कुचयुगीव घन-
घटाकारमञ्जुला कुन्तलाली, कुन्तलालीव सारङ्गत्रपादायिनी कुचयुगली ।
किं च कटाक्षः सुतीक्ष्णोऽपि कृष्णः, कुचभारः पर्वतखरूपोऽपि
गुरुः ।
अपि च मौलिर्वक्रकचोद्भासितः, कटाक्षो नवक्रकचोद्भासितः । कैश्यं
रविन्दसुन्दरम्, नयनमरविन्दसुन्दरम् । स्वशोभितो मध्यभागः, नख-
शोभितः पाणिः । वसुधासदृशं जघनम्, नवसुधासदृशोऽधररसः । वद-
रसंनिभं वदनम्, नवदरसंनिभं कण्ठस्थलम् । मन्दो मुग्धभावः, अश-
निर्वियोगः ।
अनन्तरं सापि तमपश्यत् । यश्चाकारेण प्रतापेन च स्मरविद्वेषी ।
यस्य च वदने राष्ट्रे च द्विजा मुक्तोपमाः । यस्य च वाहनं मुखं च
द्विजराजः । यस्य चामीकरोज्ज्वला गजा उपस्कराश्च । यस्मिन्रक्षति क्षितिं
चित्रभित्तिश्चन्द्रशालासु, बन्धदर्शनं विदग्धमुखमण्डने, पयोधरोच्छेदः
शरदि ।
 
॥ २० ॥ देवो देवीमिति । कुवलयं भूमण्डलम् । घनघटा मेघसमूहः ।
पक्षे - अविरलकुम्भौ । किं चेति । द्वावपि ऋषिभेदौ इति विरोधः । कटाक्षस्य
तीक्ष्णत्वं नीलत्वं च कविसमयप्रसिद्धम् । पर्वत ऋषिभेदो नारदमित्रम् । गुरुर्बृ-
हस्पतिरिति विरोधः । अपि चेति । नूतनकरपत्रम् । 'रविन्दमन्धकारः' इति
पदरत्नावली । खमाकाशम् । वदरश्चन्द्रः । 'वदरो मानसिन्धुः शशिनस्तु त्रिना-
मकं यो वेद मुच्यते रोगैः' इति भगवान्भाष्यकारः । नवदरो नूतनशङ्खः ।
मन्दोऽल्पः । अनेन मध्यत्वमुक्तम् । अशनिर्दम्भोलिः । दुःसह इति भावः । इति
तत्त्वार्थः । सापीति । मदनसमानः, पक्षे - सूर्य समानः । चेति, अमी इति पद-
विभागः । करः शुण्डा । पक्षे-चामीकरं सुवर्णम् । यस्मिन्निति । परिसंख्या-