2023-09-08 06:23:59 by jayusudindra

This page has been fully proofread once and needs a second look.

लेखालीभिरलंकृतो विधिरिव प्रेङ्खत्प्रवालद्युति-
र्वाणीहस्त इवातिपल्लवकुलप्रेष्ठश्च गाणिक्यवत् ।
पद्मोल्लासकरस्तथा हरिरिव श्री श्रीनिवासप्रभोः
पादः कृष्णवियन्नृपालसुतयोः कुर्यान्महन्मङ्गलम् ॥१९॥'
 
इति । अथ संप्राप्ते मुहूर्ते 'सावधानेन स्थेयम्' इति भणति पुरोधोद्वये,
वादयति घण्टां ग्रामगणके, वाद्यमानेषु तुर्येषु, गायन्तीषु तद्देशभाषा-
कुशलासु चिरण्टीषु, पठत्सु विविधमव्रान्ब्राह्मणेषु, आकाशभूपेऽपि
आनन्दामृतसरोमज्जन्मानसे, पद्मावती देवी खाञ्जलिकलिततन्दुलाञ्श्री-
निवासस्य मौलावाक्षिपत् । देवोऽपि तस्याः ।
अत्रान्तरे राजपुत्र्याः सखी मदनकलिका धरामवोचत्-'देवि,
पश्य पश्य ।
 
नानारत्नमया इवाब्जभवया श्रीवज्ररेखान्विताः
किं चैते प्रमदाश्रुनीरमिलिताः सच्चन्द्रकान्ताः पुनः ।
लक्ष्मीनायकमस्तकेऽम्बरमणीरत्नेडितास्तन्दुला
मुक्तास्ते तु करप्रवालललिता हृत्पद्मरागान्विताः ॥ २० ॥'
 
विश्वंभरा भुवि' इति ॥ १७ ॥ १८ ॥ लेखेति । लेखा रेखाः । पक्षे - देवाः ।
विधिर्ब्रह्मा । प्रवालो विद्रुमः । पक्षे - वीणादण्डः । पल्लवः किसलयः । पक्षे-विटः ।
गणिकानां समूहो गाणिक्यम् । पद्मम् । पक्षे पद्मा ॥ १९ ॥ 'चिरण्टी तु सुवा-
सिनी' इत्यमरः । नानेति । वज्रं रत्नभेदः । रेखा राजिः । नीलं रलयोरभेदा-
दिन्द्रनीलमणिः । चन्द्रकान्तो मणिः । अम्बरमणीरत्नं सूर्यकान्तमणिः । मणी-
शब्दः । मुक्ता मौक्तिकानि । प्रवालो विद्रुमः । पद्मरागो रत्नभेदः । इति नाना-
रत्नमयत्वोपपादनप्रकारः । तत्त्वार्थस्तु – वज्ररूपा रेखा लक्षणव्यञ्जकपदार्थः ।
करतलस्थः । नीरं जलम् । चन्द्रवत्कान्ताः । हे अम्बेति संबोधनम् । रमणीरत्नै-
रीडिताः स्तुताः । मुकास्त्यक्ताः । प्रवालः किसलयः । हृदयकमलप्रेमान्विताः