śrīnivāsacampū /131
This page has been fully proofread once and needs a second look.
यात्रायाः पितरो द्युलोकतटिनीपांसोर्महत्त्वं विदु-
र्यस्य श्रीचरणस्य तं नृपवरः प्रक्षाल्य धन्योऽभवत् ॥१५॥
अत्रान्तरे तत्कालयोग्यगीतिकां पपाठ तदुचितो जनः । तथा हि —
'याः प्रोक्ताः सुरपारिजातहरणे या भूमिजोन्मूलने
याः कंसस्य निबर्हणे कुवलयापीडस्य याः संहृतौ ।
ताभिः संप्रति नूतनेतरगिरां श्रेणीभिराशास्महे
कल्याणं कमनीयनीरजदृशो: पद्मावतीकृष्णयोः ॥ १६ ॥
क्रोडस्थित्यतिसुन्दरः सर इव स्वैरं शचीवत्पुन -
र्यो हर्यक्षगदापनोदनपटुर्विश्वंभरानन्ददः ।
लक्ष्मीवत्क्षितिपालशौरिसुतयोः पाणिग्रहे मङ्गलं
दद्यात्पन्नगराजशैलवसतिः क्रोडावतारो हरिः ॥ १७ ॥
तिर्यक्तिर्यगपाङ्गपङ्क्तिवलनव्याजत्रपामिश्रित ·
स्मेरास्यद्युतिसूचितस्मरकृता वेगातिरेकक्रमा ।
सानन्दा हृदि साभ्यसूयकवचोलीकप्रकोपा बहि:
पार्श्वस्था कमला विवाहसमये दद्याच्चिरं मङ्गलम् ॥ १८ ॥
ष्ठेन बहुदूरं पातित इति पुराणम् । कृष्णावतारे यत्पादाङ्कितत्वाद्भुः स्वर्गाधिका
जातेति श्रीभागवतम् । कयाधुतनयः प्रह्लादः । उरगः कालियः । गयाक्षेत्रे विष्णु-
पादे पिण्डदानेन पितॄणामुद्धार इति शास्त्रम् ॥ १५ ॥ याः प्रोक्ता इति ।
भूमिजो नरकासुरः । नूतनेतरगिरो वेदाः ॥ १६ ॥ क्रोडेति । क्रोडो वराहः ।
पक्षे - कोडं भुजान्तरम् । हर्यक्षस्य हिरण्याक्षस्य गदायुधम् । पक्षे-हरेरिन्द्रस्या-
क्षाणीन्द्रियाणि तस्य गदो रोगः । विश्वंभरा भूदेवी । पक्षे - पुमान्नारायणः । 'गदो
भ्रातरि विष्णोश्चाप्यामये नायुधे गदा' इति सुधा । 'विश्वंभरोऽच्युते शक्रे पुंसि