śrīnivāsacampū /130
This page has been fully proofread once and needs a second look.
तत्र तु वैवाहिकानां परस्परं परिहासपेशला वाचः प्रसरन्ति स्म ।
तथा हि—कन्यापक्षगाः स्त्रियः 'भुजङ्गादत्तमानसे वारुणि, कुङ्कुमेन
सत्कुरु भालम् । पितामहाश्लेषरसिके सरस्वति, हरिद्रया लिम्प कुच-
कुम्भौ । चण्डि पार्वति, पुरतो भव । गुरुहृद्यपयोधरे तारे, स्वीकुरु
वीटिकाम् । तापसहितालिङ्गनेऽरुन्धति, आसन उपविश' इति । तथा
च । वरपक्षगा वनिताः-
'पीडितः स्तनभारेण तव पीनपयोधरे ।
धरे वियन्महीपालः सिद्धार्थो भूभृदप्यभूत् ॥ १३ ॥'
कांचन प्रति —– सुप्रलम्बस्तनि, इत एहि । मातङ्गगामिनि, किं ब्रूहि ।
दोषाकरमुखि, क्व स्थेयम् । अधरलसद्रागे, श्रान्तासि' इति ।
अथ तस्मिन्व्यतिकरे -
त्रय्यन्तैर्यदवर्णि यच्च विबुधैराश्लाघि यत्तापसै-
राध्यायि व्रजवल्लभीभिरनिशं चाश्लेषि यत्संभ्रमात् ।
यच्चालम्बि समुद्रराजसुतयाप्याराधि मद्दैशिकै -
स्तच्चाक्षालि पदं वियन्नृपतिना कन्याप्रदानोत्सवे ॥ १४ ॥
किं च -
अङ्गुष्ठस्य दशाननो नखमणेर्ब्रह्माण्डभाण्डं क्षितिः
स्पर्शस्य प्रणतेः कयाधुतनयः संकुट्टनस्योरगः ।
वक्तेतरेऽन्यवत्' इति । 'देवो मेघे सुरे राज्ञि' इति । कन्यापक्षगा इति ।
तापेन सहितमालिङ्गनं यस्या इति परिहासः । तापसो वसिष्ठ इति तत्परिहारः ।
वरपक्षगा इति । 'सिद्धार्थौ बुधसर्षपौ' इति । भूभृत्पर्वतः । प्रलम्बो हारभेदः ।
अधरो नीचः । अथेति । 'संपर्के च व्यतिकरः प्रकारव्रातयोरपि' इति । त्रय्य-
न्तैरिति । त्रय्यन्ता वेदान्ताः । मद्दैशिका आकण्ठकण्ठीरवाचार्याः ॥ १४ ॥
अङ्गुष्ठस्येति । कदाचिद्वामनावतारे रावणः पाताललोकं प्राप्तो भगवता पदाङ्गु-