2023-08-30 15:14:50 by jayusudindra
This page has been fully proofread once and needs a second look.
रिवाघिकमलयशोभाधरो वसन्ते वायुर्युवसु स्त्रीकटाक्षश्च । ग्रीष्मेप्विवा-
धिकाकोलदर्पहृतिर्विषवैद्येषु मृगयासु च । स्त्रीजनतेवाधिकम्पाकामित-
श्रीरहितततिः कविता च । पिका इवाधिकलालापा बालका विद्वांसश्च ।
किं च, अधिकपटोल्लसिता अधिकचोरीकृतशोभा अधिकोपचारवि-
दुग्धाः स्त्रियो न पुरुषाः ।
अद्भुतमेतत् —– यदेते राजसचिवा वहुलरचितशोभां वहन्ति । तथा-
हि — लक्षोपकारमन्त्रविदो रक्षोपकारमन्त्रविदश्च । लक्षणप्रकारज्ञा रक्षण-
प्रकारज्ञाश्च । लताङ्गीकृतप्रणया रताङ्गीकृतप्रणयाश्च । किं च, बहुलला-
मान्विता बहुलरामान्विताश्च । बहुलमण्यालिङ्गितवक्षसः बहुरमण्यालिङ्गि-
तवक्षसश्च । बहुलाज्योपभोगक्षमा बहुराज्योपभोगक्षमाश्च । बहुलचितशु-
भाचारा बहुरचितशुभाचाराश्च । बहुलसाहसोचिता बहुरसाहसोचिताश्च ।
प्रमदवनपक्षे तु कोकश्चक्रवाक इत्यर्थत्रयम् । एवमग्रेऽपि क्रमेणार्थः । यशश्च भा
च यशोभे । अधिकं मलं पापं ययोस्ते अधिकमले । तादृशे च ते यशोभे च
तयोर्धरः । पक्षे मलयः पर्वतभेदः । पक्षे कमलम् । 'कटाक्षाः संफुल्लत्कमलद-
लकूलंकषरुचः' इत्याश्चर्यचम्पूः । अधिकेति च्छेदः । कोलः प्लवः । ग्रीष्मे जला-
भावादिति भावः । पक्षे काकोलो विषभेदः । पक्षे कोलः पोत्री । पाका डिम्भाः ।
पुत्रवतीति भावः । पक्षे अधिकम्पेतिच्छेदः । अधिककम्पेत्यर्थः । न विद्यते कामित
श्रीर्यस्याः सा अकामितश्रीः । पक्षे पाको द्राक्षादिः । कलः अव्यक्तमधुरो ध्वनिः ।
पक्षे लालापं लालाजलवृन्दम् । पक्षे कला विद्या । किं चाधिकपटेति । पटो
वस्त्रम् । पक्षे कपटश्छद्म । कचेषूरीकृता अङ्गीकृता शोभा याभिस्तास्तथोक्ताः ।
पक्षे चोरीकृतशोभाः। उपचारः । पक्षे कोपचारः क्रोधसंचारः । अद्भुतमिति ।
सचिवा मन्त्रिणः । बहुल रचितशोभाम् । लकाररेफयोः शोभामित्यर्थः । तथाहि
तदेवोपपादयति – लक्षं शतसहस्रम् । रक्षसामपकारः । 'वेदभेदे गुप्तवादे मन्त्रः'
इत्यमरः । लताङ्गी वनिता । किं चेति विच्छित्तिविषये सूचनार्थम् । ललामं
भूषणम् । आज्यं घृतम् । चितः संबद्धः । रसः प्रेम । तेन हास्योचितो न ।