śrīnivāsacampū /129
This page has been fully proofread once and needs a second look.
उषःसंचारिजनसंदर्शनचकिततारकास्वभिसारिका<flag></flag>, कामिमिथुनमनोरथ-
प्रहरणायुधेषु, कूजच्चरणायुधेषु, आप्रातःकालपरिपालन जागरूकश्वशुर-
दन्तधावमानसमयकृतनिधुवनेषु पांसुलाजनेषु, भक्ष्यभ्रमोप्लवमानशे-
षाचलवानरेष्विव खण्डितद्विजवसनेषु, महाराष्ट्रसैनिके ष्विवाकुलीकृतकु
न्तलेषु, बालापचितकुसुमेष्विव नखाङ्कितवृन्तेषु, अपुरोभागस्थितमन्त्रि-
जनसंलापपरदशवदनवदनेष्विव पश्चात्प्रापितकण्ठमालेषु, ग्राम्यजनपा-
लितशुकेष्विव किंचिन्मलिनपत्रेषु, बहुव्यापारव्यग्रवणिग्जनेष्विवाक्रमवे-
ष्टितनीवीषु, मखभङ्गकुपितेन्द्रेष्विव मुक्तपयोधरवन्धेषु, नलकूबरेष्विव
दन्तदष्टरम्भोरुषु, नमुचिशूलाघातदूनगजेन्द्रेष्विवायस्तकटेषु, निर्मुक्ते-
ष्विव मुक्तकञ्चुकेषु, कौस्तुभेष्विव मनोज्ञमणितोल्लसितेषु, वेनेष्विव
गलिताङ्गरागेषु, अप्रगल्भकाव्येष्विव विभ्रष्टालंकारेषु तरुणीजनेषु,
वारुणीमनोविलासेष्विवानुभूयमानशेषसुरतसुखेषु जाते जगन्मङ्गले
प्रभातसमये कस्मिंश्चिद्राजमन्त्रिणि समागत्य कृतमङ्गलस्नानेन देवेन भवि-
तव्यम् । अयमयं त्वरयति देवः कल्याणमण्डपिकाप्रवेशाय वियन्मही पाल: सूर्यश्च' इति वदति श्रीनिवासस्तु तथा कृत्वा स्वयमेवागत्य
राज्ञाकारितः सभां प्रविवेश ।
गच्छति यस्याः पतिः सा खण्डिता' इति । 'कान्तार्थिनी तु या याति संकेतं
साभिसारिका' इत्यमरः । 'कुक्कुश्चरणायुधः' इत्यमरः । अप्रकटितपुरुषानुरागा
परकीया। द्विजवसनमधरः । पक्षे ब्राह्मणवसनम् । कुन्तलाः अलकाः, देशभे-
दश्च । वृन्तं कुचाग्रं प्रसवबन्धनं च । कण्ठमाला मुक्ताहारो गलपङ्क्तिश्च । पत्रं मक-
रीपत्रम् । नीवी कटिवस्त्रं मूलधनं च । कटः कटी गजगण्डश्च । निर्मुक्तो मुक्तक-
ञ्चुकः सर्पः । कञ्चुकः कुचबन्धनम् । पक्षे - सर्पत्वग्विशेषः । मणितं रतिकूजितम् ।
पक्षे मणिता रत्नत्वम् । अङ्गरागो लेपनद्रव्यम् । पक्षे - वेनः अङ्गपुत्रः । कश्चन
राजाङ्गस्तत्पुत्रस्तद्द्वेषीति पुराणम् । वारुणी शेषभार्या । 'शेषः संकर्षणेऽनन्ते उप-