2023-09-07 16:51:09 by jayusudindra

This page has been fully proofread once and needs a second look.

ज्ञापयति देवम् – 'भवत्संबन्धिनो वैवाहिका यथायोग्यं तत्तत्स्थानेषु
स्थापिताः । तथा हि – मेषवृषभादयो गोष्ठे, भर्तृदारिकाकण्ठ एव नक्ष-
त्रमाला, रम्भादयः प्रमदवने, कविबुधकलानिधयः सुधाधौतप्रासादेषु,
सौधाग्रे केतुः, मन्दः सभाबहिर्देशे, भुजङ्गावली नरेन्द्रभवने, अन्ये
सर्वेऽपि सुमनोगणा वाह्योपवने । अपि च । धनुः शस्त्रशालायां स्था-
प्यमुद्याने वा । तारा अङ्गिरसस्य निकटं प्रापणीया चन्द्रस्य वा । देवेन
सह गतः सविता वसुदेवो वा सूर्यो वेति वेत्तुमिच्छामि' इति । देवे-
नाप्यनाकर्णितकेन 'कथय वयस्य मरालक, कदा त्रियामा विरमेत् ।
 
प्रहस्तपीडने योग्यो नूनं कुम्भप्रभाहरः ।
कुचाभोगः सरोजाक्ष्या हनुमानिव राजते ॥ ११ ॥
 
प्रियकामितसौन्दर्यं विलसत्तारकेक्षणम् ।
पुनः पश्यामि तद्वक्त्रं चन्द्रबिम्बमिवोल्लसत् ॥ १२ ॥'
 
इति चिन्तयन्नेव तां निशामनैषीत् । एवं स्थिते 'श्रितकमलवृन्देषु
मिलिन्देषु कथंकथमपि प्रियचाटुवचनपरिपाटीनिधुवनस्निग्धासु मुग्धासु,
अन्याङ्गनालिङ्गनचिह्नदर्शनकोपसंजातकटुवचनमण्डितासु खण्डितासु,
 
नम् । 'ग्रहभेदे ध्वजे केतुः' इत्यमरः । नरेन्द्रो व्यालग्राही । 'धनुः प्रियाल
<flag></flag>मराशिभेदयोः शरासने चापि धनुर्धरे च' इति । 'जनकः सविता पिता' इति
धनंजयः । प्रहस्तेति । प्रकर्षेण हस्ताभ्यां पीडनम् । कुम्भः कलशः, गज-
मूर्धा वा । पक्षे द्वावपि राक्षसभेदौ ॥ ११ ॥ प्रियेति । प्रियं च कामितसौ-
न्दर्यम् । पक्षे - प्रियको मृगस्तेनामितसौन्दर्यम् । 'प्रियकः पीतशालके । नीपे
चित्रमृगे चालौ प्रियङ्गौ कुङ्कुमेऽपि च ॥" इति मेदिनी ॥ १२ ॥ एवं स्थिते
इति । 'अस्त्री चाटुश्चटुः श्लाघा प्रेम्णा मिथ्याभिशंसनम्' इति । 'परिपाटी
<flag></flag>क्रमः' इत्यमरः । 'सुरतक्रीडां निधुवनमार्याजनमाहुरर्थविदः' इति । 'अकु -
ण्ठितयौवना मुग्धा' इति रसमञ्जरी । 'अन्याङ्गनासुरतोपभोगचिह्वितः प्रातरा-