śrīnivāsacampū /127
This page has been fully proofread once and needs a second look.
लेश्वरम्, सुवर्णमुखरीतिख्यातां शुकाभिधानां व्यक्तिं दृष्ट्वा नदीं च
तीर्त्वा, महाकल्पसदृशेन वैवाहिकजनेन केनचिद्दिवसेन च सामोदं प्राप्य
नारायणपुरवाह्योद्यानपुष्पवाटिकाप्रदेशम्, दृष्ट्वा च वियद्भूमिपालम्,
शान्ते चान्योन्यपटवासप्रक्षेपव्यापारे, व्यासस्येव पुराणागमख्यातस्य, कृष्ण-
स्येव महाविटपालिश्लाघ्यस्य, मेरोरिव नगललामस्य, सुकृतिन इव महा-
च्छायास्थितेः, सुकलत्रस्येव दृष्टप्रसवस्य, समराङ्गणस्येवेतस्ततः पत-
च्छिलीमुखस्य, सुरेश्वरस्येव सहस्रनेत्रस्य, चैत्यरसालद्रुमस्यालवाले क्षण-
मासीनः पद्मावत्या विरहविनोदनार्थं कल्पितं मन्दिरमध्युवास । तदनु
मरालकस्तमुवाच --
'पाकस्थानं हिरण्यस्थलमथ च मधोरुत्सवस्थानमेत-
त्प्रह्लादस्थानमेतत्कविवसतिरियं शम्बरस्थानमेतत् ।
भात्येवं गेहमेतत्पुनरसुरमणीसात्कृतं तादृशं चा-
प्याश्चर्यं श्रीनिवासप्रभुवर विबुधोत्तंस ते मोदहेतुः ॥१०॥
किंचैषा देव्या धरायाः प्रसादभूमिः चेटी मल्लिका नाम मन्मुखेन वि-
नाक्षरैर्युक्तं यद्वदनं तथा रीतिर्वैदर्भ्यादिस्तया ख्याताम् । पक्षे - सुवर्णमुखरी नदी -
भेद इति ख्याताम् । आकल्पो वेषः । सदृशो योग्यः । पक्षे महाकल्पः
'आमोदो गन्धहर्षयोः' इति । शान्ते इति । पुराणागमो जीर्णवृक्षः । पक्षे-
भागवतादिः । विटपाः स्थूलशाखाः । पक्षे विटश्रेष्ठाः । प्रसवं पुष्पम् । पक्षे-
प्रसवः पुत्रः । नेत्रं तरुमूलम् । पक्षे नेत्राणि लोचनानि । चैत्यो ग्रामद्वारि
स्थितो वृक्षः। 'चैत्यमायतने बुद्धबिम्बेऽप्युद्देशपादपे' इति रुद्रः । पाकस्था-
नमिति । पाकादयः पञ्च दैत्यभेदाः । कविरसुरगुरुः । अत एव असुरमणी-
भिदैत्यश्रेष्ठैः सात्कृतम् । विबुधोत्तंस देवश्रेष्ठ । इति विरोधः । परिहारस्तु -
महानसम् । स्वर्णस्थानम् । चैत्रोत्सवस्थानम् । प्रकृष्टसंतोषस्थानम् । सूरिस्था-
नम् । उदकस्थानम् । असुरमणी प्राणप्रिया ॥ १० ॥ किं चेति । गोष्टं गोस्था-