śrīnivāsacampū /126
This page has been fully proofread once and needs a second look.
तत्र काचन भीमसेनतनुरिवोत्क्षिप्तघटा, काचिद्विन्ध्याटवीव महा-
करीरा, काचिद्गजपङ्किरिव मदोदकधाराकलिता, काचिञ्चकोरीव निशो-
ल्लसितचन्द्रजीवना, काचित्रयीतनुवत्कुङ्कुमरक्तकमलोद्भासितकरा, का-
चिद्विष्णुवत्पाणिधृतकमला देवं वनिताजनता स्त्रापयांबभूव ।
अथाकल्पादिभिरात्मानं सत्कृत्य शमी शमीमानीय स्थापितनान्दिः
नारायणपुराभिगमनमतिं चकार देवः । ततश्च शुभयोगनक्षत्रयुजि मृदि-
तपद्मावतीहृद्रुजि मुदिताकाशभूभुजि दिवसे वामभागे वक्रेषु च लसता
कलधौतवर्णेन सरस्वतीपञ्चकेन युक्तः हंसयानः पुरतः चन्द्रवर्णावहीन-
मालौ शिवावुत्तरतो गजेन्द्रगमनौ दक्षिणतः शचीपुरंदरौ शरजातकीर्ति-
कलितौ वरुणस्कन्दौ पश्चिमतो ययतुः । अन्येऽपि यथायोग्यं निर्जर-
हृदयानन्दकन्दौ रतिमन्मथौ च ज्येष्ठाषाढोज्ज्वलौ पुनर्वसूल्लसितौ सूर्य-
सुधाकरौ च ।
मदिष्टदायी नमदिष्टदायी रसानुकूलो नरसानुकूलः ।
लसत्स्वरूपो नलसत्स्वरूपो मध्ये ययौ तार्क्ष्यरथः सलक्ष्मीः ९
एवं क्रमेण नगजाताभिरामं कतिचित्पन्थानमतीत्य, नत्वा च कपि -
प्रीतिर्जलं च । घटः कलश: । 'करिणां घटना घटा' इति च । 'वृक्षभेदे
करीरः स्याद्धटे' इति । मदः कस्तूरी । हरिद्रोल्लासितकर्पूरोदका । कुङ्कुमेन
शोणजलोद्भासितपाणिः । पक्षे-कुङ्कुमवच्छोणपद्मोद्भासितकिरणः । शमी
शमवान् । ततश्चेति । व<flag></flag>चतुष्टये वेदस्वरूपं सरस्वतीचतुष्टयम् ।
( कलध्वन्यक्षरम् । ) वामभागे वनिता सरस्वती देवी रजतवर्णा एकेति
सरस्वतीपञ्चकमित्यत्र विवेकः । 'सरस्वती नदीभेदे श्रीवाग्देवतयोर्गिरि' इति ।
शिवा पार्वती शिवश्चेति । शिवौ स्वर्णरजतवर्णौ । अहीनः सर्पश्रेष्ठः । शरजा-
तमुदकसमूहः । पक्षै-शरजन्मा षडाननः । ज्येष्ठाषाढौ मासभेदौ । वसु किर-
णः । ज्येष्ठादित्रयं नक्षत्रभेदः । मदिष्टेति । विरोधः शब्दतः । परिहारस्तु
नमतामिष्टदायी । रसा भूमिः । नरोऽर्जुनः । नलो राजभेदः । अतिसुन्दर इति
जगत्प्रसिद्धः । एवं क्रमेणेति । नगजातं वृक्षसमूहः । पक्षे पार्वती । शोभ-