2023-09-07 16:28:44 by jayusudindra

This page has been fully proofread once and needs a second look.

णिमाश्लिष्य पूर्णकामो भवामीति त्वामाह । तदत्र शेषाचलं गतया
भवत्या भवितव्यम्' इति । अथ क्षणादेव करवीरपुरान्निर्गतयोः सूर्या-
भिधानरमणीययोः स्वच्छायाह्लादकयोः पुष्करोद्भासिकरयोः गगनमध्य-
स्थितिश्लाघयोः शेषाचलनिकटं प्राप्तयोस्तपनक्षीराब्धिकन्ययोः प्रथमागते
दिनेशे श्रुतदृष्टतत्कार्यः 'देव, आगता देवी' इति विज्ञापयति तस्मि -
न्नाश्लिष्य तमाह -
 
'श्रवणोल्लासकृद्यन्मे ताराश्वासनतत्परः ।
अनुभूतरसाश्लेषः सूर्य जैवातृको भव ॥ ७ ॥' इति ।
 
तदनन्तरं च प्राप्तां तदनुरूपदेहस्थितिस्तया सह स्वामिसरस्तीरे
क्षणमासीनस्तां विगलितवेद्यान्तरामकरोत् । तदनु लक्ष्मीकरकमललापि-
ततैलः पार्वत्या स्नानार्थमाहूतः स्नानपीठमारुरोह । तदा कश्चिदवसर -
पाठक: पपाठ -
 
'घनीभूतैः स्नेहैः प्रथममभिलिप्या<flag></flag>सदना
द्रवीभूतैर्लिप्तं तदनुरमणं सा कृतवती ।
हृदिस्थै सुस्नातं सुरसनिकरैश्चित्रमधुना
कटाहस्थैः स्नातुं हिमगिरितनूजाह्वयति तम् ॥ ८ ॥
 
पाणौ यस्याः । पूर्णेच्छः । इति रमया ज्ञातोऽयमर्थः । तत्त्वार्थस्तु शरीरजातो
मदनः । काञ्चनेति भिन्नं पदम् । लताङ्गी वनितामुत्तमस्त्रियम् । पद्मपाणिम् ।
आकाशराजमुतामिति यावत् । पूर्णकाम इति । अथ क्षणादिति । सूर्या
नवोढा । गगनवद्वलग्नस्थितिः । श्रवणेति । श्रवणमाश्लेषा च नक्षत्रभेदः ।
तारा गुरुपत्नी । जैवातृकश्चन्द्र इति चमत्कारः । तत्त्वार्थस्तु श्रोत्रम् कनीनिका
आलिङ्गनम् आयुष्मान् । घनीभूवैरिति । स्नेहः प्रेम । पक्षे तैलम् । रसः