2023-09-07 16:22:44 by jayusudindra

This page has been fully proofread once and needs a second look.

णिग्रहणमोक्षव्यापारे स्वर्भानुम्, वनिताजनसत्कारे मदनम्, अतनुदी-
पप्रबोधे चन्द्रम्, आर्याज्ञापालने स्कन्दम्, गीतादिश्रवणे वैश्रवणम्,
सर्वव्यापारेषु मङ्गलम् इति ।
 
सभास्तारेषु मुनिषु देवेषु च नरेषु च ।
चित्रं चित्रं विशेषेण यद्व्यासोऽभूत्सभारतः ॥ ५ ॥
 
ततश्चाष्टवर्गस्नानमाचरितुं प्रवृत्तस्तत्कालजातलक्ष्मीस्मृतिरचिन्तय-
द्देवः— 'लोके सपद्मत्वेन सपङ्कोऽपि कासारो भुवनाधारे भवति । स-
कमल एव चन्द्रो दोषाकरोऽपि सर्वज्ञचूडामणिख्यातिं लभते । सम एव
सर्वैः श्लाघ्यते। सश्रीकः स्वयमर्धपुरुषोऽपि चण्डीं वशवर्तिनीं कुरुते
शिवः' इति । अत्रान्तरे विदितप्रभुभाव उष्णरश्मिः सार्थकयन्निव मित्र-
भावं प्राप्य करवीरपुरं तत्र च क्षीरपारावारकन्याम्
 
'भाषास्मरहयहेषाशेषाम्बुजलोचनाशिरोभूषा ।
शेषाहितल्पयोषा सैषा मय्यस्तु कलितपरितोषा ॥ ६ ॥
 
इति स्तुत्वा तयापि 'आगमनकारणं किम्' इति पृष्टस्तां बभाषे–'देवि,
शृणु । देवः श्रीनिवासो भुजङ्गराजशैले निवसतीति ज्ञातमेव खलु ।
स हि शरीरजातपीडया दूयमानमनाः काञ्चनलताङ्गीं कमलां कमलपा-
 
श्चेति चमत्कारः । अतनुदीप: 'दिवटी' इति भाषा । सभास्तारेष्विति ।
सभायां रतः । पक्षे - 'महर्षिव्यासरचिते जम्बुद्वीपेऽपि भारतम्' इति । लोक
इति । पद्मा कमला मा श्रीरिति चतुष्टयं श्रीवाचकम् । पकः पापम् । भुवनं
जगत् । इति चमत्कारः । सरोजं कर्दमः जलमिति तत्त्वार्थः । कमलो मृगः ।
अर्धपुरुष इति चमत्कारः । विषमार्धनारीवरः । 'चण्डी कात्यायनीदेव्यां हिंस्रको-
पनयोषितोः' इति सुधा । भाषेति । स्मरहयः कीर इति कविसमयः । द्वेषा
अश्वध्वनिः । शरीरे जाता या पीडा । सुवर्णवल्लीवदङ्ग यस्याः । लक्ष्मीम् । कमलं