2023-09-07 16:17:24 by jayusudindra

This page has been fully proofread once and needs a second look.

चन्द्रस्तारोल्लसितमण्डपे निवसति । शिवः परितः पर्वतभुवं परिपालयन्व-
र्तते । मृत्युर्वेङ्कटभूपालवैरिषु स्थापितः । मदनस्तु देवस्य निकट एव
धृतशरचापो यामिकाव्यापारासक्त इति विदितमेव देवेन । देव, अन्य-
त्किंचिद्विज्ञाप्यमस्ति । इन्द्रस्त्वहिहेतिवासुकिप्रभृतिः सर्पगणो विभेति ।
वायुर्बहुधोक्तोऽपि नैकत्र तिष्ठति । वृश्चिकराशेः स्थलं न मिलति परा-
शरः कन्याराशिनिकटं यथा न गच्छेत्तथा देवेन वक्तव्यः । स्कन्दव-
रुणौ वाहिनीपतित्वे प्राप्तकलहौ । अपि चायं वैश्वानरोंऽशेन वैवाहि-
कानामुदरं प्रविश्य व्याकुलयति । तदत्र का गतिः । इतः परं देवः
प्रमाणम्' इति । देवेऽपि स्मेरवदने कृतं चतुरालापेन । सर्वोऽपि जनः
क्षुधातुर इति वद । कथय चतुराननं मद्वचसा' इत्याज्ञापयति विप्व-
क्सेनोक्तः परमेष्ठी कुबेरमवदत् – 'धनाधिपते, देवः श्रीनिवास आज्ञा-
पयति तावन्मीनमेषकुम्भराशयो वर्तन्ते । देवानाममृतं स्वामिसरसि पुरैव
स्थापितम् । काष्ठार्थं दिग्देवताः सन्त्येव । पयोर्थं मेघा आज्ञापिताः ।
अलंकृतयः कविनार्पिता एव । अन्यदापादनीयं भवति । तस्माद्भवानेव
शरणम्' इति । 'तथास्तु' इति तेनोक्ते गृहीत्वा द्रव्यजातं तत्तद्योग्यं
जनं तत्तद्व्यापारे नियोजयामास । तथा हि —– कामदाने शंकरम्, सुरभि -
द्रव्यसाधने वसन्तम्, आशुगमनागमनव्यापारे वायुम्, चन्द्राम्बरम-
 
सुता । सा महेन्द्रेण रत्यर्थं भार्यात्वेनोपपादिता । उदीर्णसेनापतये महासेनाय
सुव्रता ।' इति वायुपुराणम् । तारं रजतम् । पर्वतभूः पार्वती । मृत्युर्देवभेदः ।
पक्षे मरणम् । देवेति । 'अहिर्वृत्रेऽप्यहिः सर्पेऽप्यहिः क्रूरे' इति । पराशरो
दाशकन्यायामासक्तोऽभूदिति कन्याराशेर्भयमिति भावः । कृतमलम् । 'दारुदारु -
हरिद्रयोः । प्राच्यादि दिशि चोत्कर्षे काष्ठशब्दः' इति लिङ्गाभट्टः । 'पयः क्षीरं
पयोऽम्बु च' इत्यमरः । कविः शुक्रः । तथा हीति । कामदानं मन्मथखण्ड-
नम् । चन्द्राम्बरमणयः सुवर्णवस्त्ररत्नानीति तत्त्वार्थः । सुधांशुभास्करयोर्मोक्ष-