śrīnivāsacampū /122
This page has been fully proofread once and needs a second look.
यश्च समागताः । तत्रैते देवाः सकामा अष्यकामाः, देवस्त्रियः सशिवा
अप्यनुग्राः, राशयः सतुला अप्यतुलाः, ग्रहाः ससूर्यमङ्गला अप्यसूर्य -
मङ्गलाः । किंचैतौ द्विजराजौ गरुडसुधांशू, मरुन्नियन्तारौ वायुपुरंदरौ,
नियमिततारौ गुरुसूर्यौ, शिखिख्यातौ स्कन्दवैश्वानरौ, आत्मभुवौ मद ,
नचतुर्मुखौ ।
अपि चान्ये केचन शिवा इव समङ्गलाः गाङ्गेयभूषिताश्च, अग्नय
इव रोहिताश्चाः सहेतयश्च, ब्राह्मणा इव सत्यासक्ताः सुकुमाराश्च गी-
र्वाणा इति विष्वक्सेनप्रदर्शितान्निरीक्ष्य सहर्षस्तममजीगदत् - 'सेना -
पते,यथायोग्यमेतानवतारय' इति । स तु देवेन पूर्वमेवावितास्तारिताश्चेति
वदन्नेव निर्गत्य क्षणात्पुनः प्रविश्य व्यजिज्ञपत्— 'देव, मद्गमनात्पूर्व -
मेव सुमनोवाटिकायां स्थितः पुरंदरः । वरुणस्त्वाकाशगङ्गानिकट एव
सानन्दः । धनदः पुण्यजनावासयोग्यं गिरिशिखरमेवाश्रितः । रम्भावने
जागरूकस्तिष्ठति नलकूबरः । भानुः काञ्चनलताभिरामां छायामाश्रित्य
क्रीडति । स्कन्दस्तु देवसेनां क्षणमपि न मुञ्चति परेभ्यः शङ्कमानः ।
संतोषः । यमो योगाङ्गभेदः । 'पालाशो दण्ड आषाढ : ' इत्यमरः । शास्त्रश्रव-
णासक्ताः । अतुला असमानाः । असूरीणाममङ्गलाः । किं चेति । 'गरुडे चन्द्रे
द्विजराजः' इति । सूर्यो नेत्रेन्द्रियनियामक इति शास्त्रम् । शिखी मयूरस्तेन
ख्यातः । पक्षे-शिखावानिति ख्यातः । 'शिखिनौ बर्हिपावकौ' इति । अपि
चान्य इति । 'मङ्गला सितदूर्वायामुमायां पुंसि भेषजे । नपुंसकं तु कल्याणे' इति
सुधा । 'हेतिः स्यादायुधज्वालासूर्यतेजसु योषिति' इति सुधा । सत्यो ब्रह्मलोकः ।
विष्वक्सेनो विष्वक्सेनापतिः । देव मद्गमनादिति । सुमनसः पुष्पाणीति त-
त्त्वार्थः । देवा इत्यर्थान्तरम् । तेन चमत्कारः । एवमग्रेऽपि । आकाशगङ्गेति शेषा-
चलतीर्थविशेषः । पक्षे भागीरथी । कांचनेति भिन्नं पदम् । छायामनातपम् ।
पक्षे-काञ्चनलता हेमवल्ली । छायाभिधानाम् । 'शतक्रतो रूपवती देवसेनेति या.