śrīnivāsacampū /121
This page has been fully proofread once and needs a second look.
चित्रवर्णसमुल्लासः सर्वद्विजकुलाग्रणीः ।
शुकः कूजति सानन्दं निखिलश्श्रुतिसौख्यदः ॥ ३ ॥
इति श्रुत्वा मरालकोऽपि 'देव, तिष्ठत्वेतच्छुककूजनम् । किमने-
नारंतुदेन देवस्य । तच्छुककूजनं स्मरतु भवान्, यत्कंदर्पकालसर्पदष्टस्य
देवस्य पतगराजमन्त्रः' इति भणति सति 'साधु भणितं वयस्यः' इति
श्लाघयन्, स्मृतिमात्रकृतसंनिधानौ अनन्ताभिधानौ द्वावपि सपक्षावित्या -
हूय शेषगरुडौ 'भवद्भ्यां गिरिकृतप्रेमावासश्चतुर्मुखः शिवश्च सर्वामरगणैः
सहागच्छेति वक्तव्यः' इत्याज्ञाप्य पत्रिकां च दत्वा प्रेषयामास । ततश्च ।
अभूत्पतङ्गाधिपतिः सपत्रो न तद्विचित्रं स यतो गरुत्मान् ।
चित्रं फणीन्द्रोऽपि तथेति यद्वा किं दुर्लभं तुष्यति वासुदेवे ॥ ४ ॥
अथ ताभ्यामाकारिताः सर्वे सबुधा अपि विबुधाः भवेन विभवेन च
राजमानाः मानयुक्ता विमानयुक्ताश्च फणीन्द्राचलमगमन्देवाः । तदनु
तानागतान्वीक्ष्य 'देव, एते शतानन्दकौशिकमित्राङ्गजशुक्र हरिप्रभृतयः
सप्रमदाः सयमाः समृगकृत्तिकाश्लेषाः साषाढाः वैश्रवणतत्परा देवा मुन-
यस्मिन्स तं लसच्चन्द्रभासम् । काशाः शराः । पक्षे - चन्द्रकान्तिसदृशसौन्दर्या-
वहम् । क्रौञ्चः पक्षिभेदः शरदि निर्मद इति कविसमयः । पक्षे - पर्वतः । चित्रं
किर्मीरवर्णः शुक्लादिकेष्वेकः । पक्षे अद्भुताक्षरम् । 'वर्णो द्विजादौ शुक्लादौ स्तुतौ
वर्णं तु चाक्षरे' इत्यमरः । 'वैदे श्रवसि च श्रुतिः' इत्यमरः । शुको वैयासकिः ।
अनन्तनामा गरुड इति भाष्यकृतो वचनम् । गिरि वाग्देव्यामिति सप्तमी ।
पक्षे गिरिः पर्व॑तः । अभूदिति । पत्रं गरुदिति चमत्कारः। पत्रिकेति तत्त्वार्थः ।
आकारिताः । विरभाववाचीति सर्वत्र शब्दतो विरोधः । परिहारस्तु बुधश्चन्द्र-
पुत्रः । भवः शिवः । 'व्योमयानं विमानोऽस्त्री' इत्यमरः । देव, एते इति ।
ब्रह्मेन्द्रसूर्यमन्मथवह्निवायवः । प्रमदा वनिता । मृगादयो नक्षत्रभेदाः । कुबेरा-
सक्ताः । इति देवपक्षे । ऋषिपक्षे तु - मित्राङ्गजो मैत्रेयः । ऋषभपुत्रः । प्रमदः