śrīnivāsacampū /120
This page has been fully proofread once and needs a second look.
पञ्चम उच्छ्वासः ।
अथ तस्यां वर्षावासरकलारमण्यां क्षीणरसायां गतायां दृश्यादृश्यगौर-
पयोधरां हंसकलसन्नीरजपदां स्फुटपरिकलितनिर्मलरसां निरवग्रहराका-
संपदभिरामाम् अच्छाच्छशुभ्रांशुकरमाप्रकटोपलक्ष्यमाणनक्षत्रमालाम्
अतनुबन्धुजीवानन्दकारणं रम्भोरुश्रियं दधानां शुकव्याहारमणीयां
स्फूर्जच्चन्द्रशालिनिशाभिरामां ललितमृणालभुजाभूषितां शरदं साक्षादिव
पद्मावतीं विलोक्य द्विगुणितरणरणके श्रीनिवासे मरालकः पपाठ ।
वेणीगुम्फितकमलश्रेणी संसक्तचञ्चरीककुला ।
एणीदृगिवानन्दद्रोणी नैवास कस्य शरदेषा ॥ १ ॥
आमोदितकमलाशयमुद्बुद्धविधुप्रसादभूयिष्ठम् ।
श्रीकृष्णयोः सखीवन्नन्दतु देवः शरत्समयम् ॥ २ ॥ इति ।
अथ तेन प्रथमरसासारगर्भितेन श्लोकद्वयेन चमत्कृतो बलान्नीयमान
इव मदनेन प्रयागमिव भारद्वाजसंचाररमणीयं स्वयशःसमूहमिव लसच्च-
न्द्रभासंकाशसौन्दर्यवहं स्कन्दमिवापहृतक्रौञ्चमदं पर्वतैक-
देशमाश्रित्य
मरालकमवादीद्देवः— 'वयस्य, पश्य पश्य ।
अथ तस्यामिति । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः ।
अवग्रहः प्रतिबन्धः । राका नवरजोनारी । शुभ्रांशुश्चन्द्रस्तस्य करमा किरण-
संपत् । पक्षे शुभ्रवस्त्रस्य रमा शोभा । बन्धुजीवः पुष्पभेदः । मदनव्यापार
विषये यो बन्धुराप्ततादृशो यो जीवः शरीरी । चन्द्रेण सोमेन शालिनी
या निशा रात्रिः । पक्षे- कर्पूरेण । 'निशाख्या काञ्चनी पीता हरिद्रा
वरवर्णिनी' इत्यमरः । मृणालभुजा हंसेनेति तृतीया । भुजा अदन्तभुजा
एवार्थ: । 'मारो रणरणः कामः' इति । वेणीति । 'स्याद्वेणी केशबन्धेऽपि
स्रोतसि' इति । 'द्रोणी काष्ठाम्बुवाहिनी' इत्यमरः । आमोदितेति । कमला
शयो जलाशयः । चन्द्रप्रसन्नता । पक्षे - लक्ष्मीमानसम् । विष्णुदया । अथेति ।
भारद्वाजः पक्षिभेदः । पक्षे-मुनिः । तत्संबन्धी । लसन्ती चन्द्रभाः स्वर्णकान्ति-