2023-08-30 15:08:10 by jayusudindra
This page has been fully proofread once and needs a second look.
किं च, गानं तानि । सदो वितानि । मण्डलान्यवितानि । हारि
विहारि अविहारि च स्तनमण्डलं स्त्रीणाम् ।
यस्मिञ्शासति वसुमतीं गिरिविभ्रमा गजा इव द्विजाः समदा द्विजा
इव गजाश्च । सुप्रतीकस्पृहणीयाः करिण्य इव तरुण्यः सार्वभौमयोग्या-
स्तरुण्य इव करिण्यश्च । कलमहिता वाणीव केदारश्रेणी बहुधान्यहृद्या
केदारश्रेणीव वाणी । अधिकामितसङ्गाः स्त्रियः पुरुषाश्च । अधिक-
वचस्थितिरम्या भटाः शुकाश्च । अधिकवलिताः शत्रवः स्त्रीकटाक्षाश्च ।
अधिकम्परहिता रणे भटाः सभासु वाचः ।
किं च, सिन्धुप्विवाधिकपोतविचारो गृहप्राङ्गणेषु वलभोविटङ्केषु
च । महारण्येष्विवाधिककोकागमविलसनं कामिषु प्रमदवनेषु च । शत्रु-
इति परिहारः । विरोधस्तु शब्दतः । किं चेति । तानो नाम गानगुणभेदः ।
सदः सभाः । वितानमुल्लोचः । 'अस्मानगिरी' इति महाराष्ट्राः । अवितानि रक्षि-
तानि । मण्डलानि देशाः । इति परिहारः । अत्र तानि वितानि अवितानीति
क्रमेण विरोधः शब्दतः । हारि मालायुक्तम् । विहारि पक्षिवन्मनोज्ञम् । 'हारि
वल्गु' इत्यमरः । 'खगौ वा गुच्छौ वा कनककलशौ वा किमु कुचौ इति बिह्वणः।
अविः पर्वतस्तद्वन्मनोज्ञमिति परिहारः । विरोधपरम्परा शब्दतः । 'अवयः
शैलमेषार्काः' इत्यमरः । यस्मिन्निति । गिरिवत्पर्वतवद्विभ्रमः शोभा येषां ते ।
'विभ्रमः । शोभायां संशये हावे' इति हैमः । पक्षे गिरीति सप्तमी । वाचि विषये
भ्रमहीनाः । मदो हर्षो गर्वश्च । 'सुप्रतीको भेद्यलिङ्गः शुभाङ्गे दिग्गजे पुमान्'
इति रत्नमाला । सार्वभौमो दिग्गजभेदो राजा च । कलमा धान्यभेदाः । पक्षे
कला अव्यक्तमधुरा च सा महिता च पूजिता । अन्यहृद्या । पक्षे धान्यहृद्या ।
अधिकामितसङ्गा अधिकापेक्षितसुरताः । अनेन स्त्रीपूर्वकानुराग उक्तः । पक्षे
अधिकोऽमितः सङ्गो येषाम् । अनेन पुरुषाणां दृढच्युतित्वमुक्तम् । 'अधिकपयः -
श्रियं वहन्त्यः' इति माघप्रयोगात् अधिशब्दोऽधिकवाचकः । कवचस्थितिः ।
पक्षे वचःस्थितिः । कवलिता वलिताश्च । कम्परहिताः परहिताश्च । किं चेति ।
'यानपात्रे शिशौ पोतः' इत्यमरः । पक्षे कपोतः पक्षिभेद इत्यर्थत्रयम् । विटङ्कं
पारावतस्थानम् । अरण्यपक्षे कोको वृकः, कामिपक्षे तु कोकागमः कामशास्त्रम् ।