śrīnivāsacampū /119
This page has been fully proofread once and needs a second look.
देव, अतः कथयामि । जम्बूशोभावहे सुमनःसंदोहसुन्दरे त्वयीव
वर्षावासरे कृतवति दयां शरदि महोत्सवमनुभवतु देवः' इत्युक्त्वा च
तदनुमत्या स्वाश्रमं गतवति ऋषिसार्वभौमे शुके बकुलाहस्तार्पितं पद्मा-
वत्या वसन्तमिव सकलकण्ठशोभं ग्रीष्ममिव शुचितारमणीयमितं वर्षा -
बासरमिव पयोधरसंबन्धसुन्दरं शरत्समयमिव राजच्चन्द्रगुणं हेमन्तमिव
स्पृहणीयमित्रकरं शिशिरमिव तपः स्थितिज्ञापकं मौक्तिकहारं कण्ठालं-
करणं विधाय कदागच्छेच्छरदिति चिन्तयन्
नवरसकमनीये शीतशीतस्वभावे
लसति सुघनसारोज्जृम्भणे वेङ्कटेशः ।
कविरिव नृमृगेन्द्राचार्यवाचां विलासे
विहरति स च वर्षावासरे श्रीनिवासः ॥ २६ ॥
इति श्रीमत्कवीन्द्रवर्यश्रीवेङ्कटाघ्वरिकविराजकृतौ श्रीनिवासविलास-
चम्प्वां चतुर्थोच्छ्वासः ।
पक्षे–दैत्यभेदः । देवेति । जम्बूवृक्षभेदः । पक्षे द्वीपभेदः । दयेति गमनविषये
लोकोक्तिः । कण्ठः । पक्षे कलकण्ठः शुचयो धवलाः । तारा निर्दोषाः ।
भणयो मौक्तिकानि । ताभिर्यमिता वद्धाः । 'मुक्ताशुद्धौ च तारः स्यात्' इत्य-
मरः । पक्षे - शुचिता ग्रीष्मता । तया रमणीयमितं गतम् । प्रावृट्कालस्येदानीं
षर्ण्यत्वात् । सुवर्णतन्तुः । सुहृत्पाणिः । पक्षे सूर्यकिरणः । 'तपा मा '
इत्यमरः । नवरसेति । नवरसा नूतनोदकानि । पक्षे नवसंख्याकाशृङ्गारादि-
रसाः । घनसारो मेघश्रेष्ठः । पक्षे - कर्पूरम् ॥ इति श्रीधरणीधरविरचितायां
श्रीनिवासविलासचम्पूटीकायां पूर्वभागे चतुर्थ उच्छ्वासः ॥