śrīnivāsacampū /118
This page has been fully proofread once and needs a second look.
दृष्टानेकखद्योतप्रतापः, अनुकूलनायक इव सदावलाकामहितः, भारतरण
इव दृप्तसिन्धुराजः, द्रुपद इव शिखण्डिनन्दनः, दुर्जन इव भिन्नसेतुः,
तालवनप्रदेश इव मत्तधेनुकः, त्वमिव संजातकीर्तिः आनन्दयति पार्व-
तीकटाक्ष इव सर्वम् । अपि चेदानीमसहमानतपः स्थितिविलासा घन-
श्रीबद्धस्पृहा मित्रस्य राज्ञोऽपि नानुग्राह्या इति सूचयन्ताविव पुष्पवन्तौ
न नयनगोचरीभवतः । द्रावयन्त इव शुचिचरित्रं मदनगुटिकाधनुर्मुक्ताः
कुमुदकलिका इव पतन्ति करकाः । जीवनप्रदेष्वपि चपलाश्चिरं संगतं
न बध्नन्तीति कथयन्त्य इव मेघेषु क्षणं राजन्ति सौदामिन्यः ।
किं बहुना ।
राधोल्लासनिदानेन ऋक्षराड्दर्पहारिणा ।
अनेन हंसरिपुणा देवकीनन्दनायितम् ॥ २५ ॥
खद्योत इति च । बलाका बिसकण्ठिकेति पक्षिभेदः । पक्षे- अबलायाः कामस्य
हितः । सेतुः आलुः । पक्षे - मर्यादा । धेनुको दैत्यभेदः । 'धेनुका तु करेण्वां च
घेनावपि च कीर्त्यते । पुंसि दानवभेदे च ' इति सुधा । सर्वं समस्तं जगत् ।
'सर्वस्तु शर्वो भगवाञ्शंभुः कालंजरः शिवः' इति नामनिधानम् । अपि चेदा-
नीमिति । तपश्चान्द्रायणादिः सान्तः । घनश्रीरविरलसंपत् । मित्रं सुहृत् । राजा
भूपः । इति चमत्कारः । तत्त्वार्थस्तु घर्मर्तुः मेघसंपत् । चन्द्रसूर्ययोरितीवेत्यु -
त्प्रेक्षा । 'एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ' इत्यमरः । शुचिचरित्रं
विशुद्धचरित्रमिति चमत्कारः । तत्त्वार्थस्तु ग्रीष्मचरित्रम् । 'शुचिर्ग्रीष्माग्निशृङ्गा-
रेष्वाषाढे शुद्धमन्त्रिणि । ज्येष्ठे च पुंसि धवले शुद्धेऽनुपहते त्रिषु' इति सुधा ।
'वर्षोपलस्तु करका' इत्यमरः । 'चपलश्चोरके चले । क्षणिके चिकुरे शीघ्रे पारदे
प्रस्तरान्तरे ॥ मीनेऽपि चपलापि स्यात्पिप्पल्यां विधुति स्त्रियाम् । पुंश्चल्यामपि'
इति हैमः । संगतं संबद्धम् । राधोल्लासेति । 'राधा विद्युद्विशाखयोः ।
गोप्यां' इति हैमः । ऋक्षराट्र चन्द्रः । पक्षे - जाम्बवान् । हंसः पक्षिभेदः ।