śrīnivāsacampū /117
This page has been fully proofread once and needs a second look.
चञ्चलश्रीर्मया दृष्टः श्रीनिवास तवाहितः ।
अक्षरच्युतियुक्तोऽपि तादृगेवेति विस्मयः ॥ २२ ॥
त्वच्छत्रोरपि तन्नारी मता विन्द्वधिका प्रभो ।
स च संत्यक्तकुतलः सा परित्यक्तकुन्तला ॥ २३ ॥
इति सजयशब्दमुदीर्य
प्रतिपाद्य दुहितरं स्वां गङ्गां भर्त्रे स्रवन्तीनाम् ।
जगृहे तदीयकन्यां लक्ष्मी कृष्णः कलत्रार्थी ॥ २४ ॥
इति बहुश्रुतप्रोक्तश्लोकवर्जं सर्वमपि वृत्तं स्वागमनकारणं च निवेद्य तोष-
यामास । स्थाने खल्वेतत् । न कस्य शुकवाणी तोषहेतुः । पुनश्च शुकः
श्रीनिवासमाह — 'देव, सर्वमपि वृन्दारकवृन्दमाकारय । अधुना तु
सर्वत्र परिपूर्णवाहिनीकः समृद्धकमलः । उत्प्लवमानहरिकदम्बः स्फुर-
च्चापः ज्याहितकरः शूरराजतेजोपहारकः दृप्तसारङ्गनिकरः महाराज इव
वर्षासमयः समाजगाम । यश्चाब्जयोनिरिव सर्वसत्त्वाकरः, संवर्त इव
युद्धेऽङ्क उच्यते ॥" इति लिङ्गाभट्टः । एवमर्थपञ्चकम् । चञ्चलश्रीरिति ।
चेत्यक्षरस्य वर्णस्य च्युत्या युक्तः चलश्रीर्भवति । चलचञ्चलयोरेकार्थत्वात्तादृगे-
वेत्युक्तमिति चमत्कारः । तत्त्वार्थस्तु नाशरहितच्युतियुक्तः । कदाप्युत्थानं नास्तीति
भावः । त्वच्छत्रोरिति । तन्नारी तस्य वनिता । बिन्दूधिका किंचिदधिका ।
कुतलापेक्षया कुन्तलस्य बिन्द्वधिकत्वमिति चमत्कारः । भूतलम् । केशाः इति
तत्त्वार्थः । शुकवाणी स्त्रीति च । अधुना त्विति । हरिर्भेकः । चाप इन्द्र-
चापः । ज्याया भूम्या हितकरः । पक्षे मौर्व्यामाहितपाणिः शूरः सूर्यः । राजा
चन्द्रः । सारङ्गश्चातकः । यश्चेति । सत्त्वानि जन्तवः । पक्षे सत्त्वं गुणभेदः ।
'द्रव्ये पणे बले जन्तौ व्यवसायस्वभावयोः । गुणे वित्ते सतो भावे सत्त्वं गुणिनि
च त्रिषु ॥ ' इति लिङ्गाभट्टः । 'खद्योतो ज्योतिरिङ्गणः' इत्यमरः । पक्षे - दिनमणिः