śrīnivāsacampū /116
This page has been fully proofread once and needs a second look.
तदनु चित्रभानुप्रवेशनिर्गमपूता सीता प्राप्तराज्यं राममवादीत्-
'आर्यपुत्र, मायासीतेयमायासिता दुरात्मना रावणहतकेन । तदियं भा -र्यापदे स्थापनीया' इति । रामस्तु तदाकर्ण्य 'प्रिये जानकि, एकपत्नी-
व्रतधरोऽहमिदानीं कृतकृष्णावतारस्तारेशमुखीमेनां मेनाङ्गजातामिव
शिवो भूभृत्सुतामङ्गीकरोमि' इत्यभाणीत् । 'राजन्, सैवेयं पद्मावती स
एव श्रीनिवासः । तयोरुचित एव संबन्धः । कोऽत्र संदेहः । किं
विलम्वेन । लिख्यतां लग्नपत्रिका' इति । अथाकाशभूपतिस्तु सलग्न-
पत्रं भगवन्तं भागवतप्रसवस्थलीं शुकं बकुलया सह प्रेषयितुमिच्छन्कु मारीप्रसादस्थितां बकुलाम्
भटो गजः करो नीतिरपि वेङ्कटभूपतेः ।
वत्से सदा नरसमा भाति तच्छत्रुवर्गवत् ॥ २० ॥
कान्ताफालकटाक्षासिरूपवद्राजते सदा ।
रोहिताङ्कोल्लसत्क्रीडोद्यानं शेषाचलप्रभोः ॥ २१ ॥
इति श्रीनिवासगुणवर्णनप्रचुरं राजपुत्र्या सह संलपन्तीमाहूय फणीन्द्रा-
चलं प्रेषयामास । स च शुकोऽपि सपक्षस्तदहरेव प्राप्य यथाशास्त्रं
पूजितः ।
स्थापिता पञ्चवट्यां रावणेन हृतेति संप्रदायज्ञाः । मेनाङ्गजाता पार्वती ।
भट इति । नरोऽर्जुनः । मदोदकसंपदा सहितः दानोदकसंपदा सहितः ।
नरा मनुष्याः । न विद्यते रसः शृङ्गारादि मा सन् यस्य ( ? ) स नरसमः । न
समासः । नीतिशब्दानुसारेण स्त्रीत्वम् । 'इन्दिरा लोकमाता मा' इत्यमरः ।
कमलासंपदोऽनैक्यं कविसमय प्रसिद्धम् । एवमर्थपञ्चकम् । कान्ता फालेति ।
रोहिताङ्कः कुङ्कुमचिह्नम् । रुधिरचिह्नम् । मीनश्चिह्नं यस्य स मन्मथः । मृगरूप-
भूषम् । 'स्थानान्तिकोरुचिहेषु कोपे रूपकभूषयोः । नाटकादिपरिच्छेदे चित्र-