śrīnivāsacampū /115
This page has been fully proofread once and needs a second look.
करिण्य इव तरुण्यः सार्वभौमयोग्यास्तरुण्य इव करिण्यश्च । कलमहि-
तावाणीव केदार श्रेणी बहुधान्यहृद्या केदारश्रेणीव वाणी ।
राक्षसविभवानन्दश्रवणं हि समासु चक्रवर्तित्वम् ।
राजन्कुलालनिचये यस्मिन्रक्षति वसुंधरां राज्ञि ॥ १४ ॥
स हि सत्सुरागशोभं शैवशरा संकरं च सीतायाः ।
चित्रं चित्रं युगपद्राजकदम्बं च पीडितं चक्रे ॥ १५ ॥
अनुभूतचापभङ्गः पूर्वं पश्चाच्च दृष्टशरभङ्गः ।
बहुगुणभङ्गः सततं चित्रं चित्रं तथापि वीरोऽसौ ॥ १६ ॥
स जयति कश्चिद्धन्वी वालिखर्मार्गगमननिःश्रेणिः ।
छिन्नसुसंधितताराताटङ्कश्रीः कृपावेणी ॥ १७ ॥
आशुगजातहुताशनसात्कृतलङ्कापुरीतदीशो यः ।
सीतादर्शनकुतुकी सोऽव्यात्काकुत्स्थपुण्यपरिपाकः ॥ १८ ॥
विरहाग्निः शान्तिमगात्प्रविशति वह्निं विदेहकुलरत्ने ।
न हि चित्रं सीतायामुष्णेनोष्णं प्रशान्तिमेति किल ॥ १९ ॥'
भेदाः । पक्षे - कला अव्यक्तमधुरा महिता च । अन्यः । पक्षे धान्यम् । अत्र
कतिचिद्वाक्यानि प्रथमोल्लासस्थान्येव संतोषातिरेकाल्लिखितानि न प्रमादात् ।
राक्षसेति । राक्षसादयः संवत्सरभेदाः । यातुधानैश्वर्यसंतोषश्रवणं च परि-
संख्यालंकारः । 'हायनोऽस्त्री शरत्समाः' इत्यमरः । स हीति । सुरागो मेरुः ।
पक्षे - रक्तिमा । पक्षे-मात्सर्यम् । पीडितं भग्नम् । पक्षे - गृहीतम् । पक्षे-दुःखि-
तम् । अनुभूतेति । धनुः । बाणः । मौर्वीं च । भङ्गो नाश इति चमत्कारः ।
तत्त्वार्थस्तु शैवधनुर्भङ्गः । शरभङ्गो ऋषिभेदः । गुणतरङ्गः । स जयतीति
'निःश्रेणिस्त्वधिरोहिणी' इत्यमरः । हन्तेति भावः । वालिमारणेन छिन्नत्वम् ।
सुग्रीवमेलनेन संधितत्वम् । वेणी स्रोतः । आशुगेति। आशुगजातो वायुपुत्रः ।
तेन लापितो योऽग्निरिति लङ्कापक्षे । आशुगजातो बाणोत्पन्न इति तदीशपक्षे ।
काकुत्स्थसंबन्धि । सीतया स्वयमिन्द्रलोकं गतया काचन मायया सीता निर्माय