2023-09-07 07:43:17 by jayusudindra

This page has been fully proofread once and needs a second look.

सहस्रकरविरोधिप्रतापप्रसरो भार्गवः, धर्मदीक्षागुरू रामः, सत्यान्वितः
कृष्णः, सर्वज्ञो बुद्धः, सत्कृतजनकः कल्की । अपि च यस्मिन्रक्षति
क्षितिं आपणे आपणे रोहिण्यः, मण्डलेमण्डले राजानः, पञ्जरेपञ्जरे शुकाः,
वनेवने इन्द्रद्रुमाः, वीथ्यांवीथ्यां निर्जराः, सुरतेसुरते इन्द्राण्यः, बिले-
बिले चक्रिणः, अरण्येअरण्ये स्थाणवः । यस्मिन्सिन्धुराजनिग्रहोपायविदि
दाशरथ्यभिन्ने श्रीकृष्णे देवे शबरत्वमपि न विस्मयाय । अन्यथा शबरी
कथं तुष्येत् । तिष्ठत्वेतदस्मद्वचनम् । पुराणाचार्यः शुकः प्रष्टव्य इति
वदति स्मृतिमात्रकृतसंनिधानो यथाविधि पूजितः कथयामास शुक-
योगी – 'राजन्, अवहितो भव । पुरा खलु त्रेतायां श्रुत एव स्यात्पठ्य-
मानेषु पुण्यप्रबन्धेषु कश्चिद्रामो नाम राजा दाशरथिरयोध्याधीश इति ।
यस्मिन्राजनि सुतारातितुल्यरूपश्चन्द्र इव ब्राह्मणगणो जैवातृकश्च सुम-
हितो वसन्त इव क्षत्रियचयः अशोकाङ्कितश्च । यस्य च राष्ट्रे गिरिवि -
भ्रमा गजा इव द्विजाः समदा द्विजा इव गजाश्च । सुप्रतीकस्पृहणीयाः
 
पक्षे वसुमती भूदेवी । हिरण्यं सुवर्णम् । दानं वितरणम् । पक्षे-हिरण्यकशिपोः
खण्डनम् । 'विक्रमस्त्वतिशक्तिता' इत्यमरः । पक्षे - पादविन्यासः । सहस्रकरः ।
सूर्यः । पक्षे कार्तवीर्यः । धर्म आचारः । पक्षे धनुः । सत्यमनलीकम् ।
पक्षे -सत्यभामा । 'सर्वज्ञः सुगतो बुद्धः' इति । कृतं युगभेदः । यस्मिन्निति ।
रोहिणी चन्द्रभार्येति स्तुतिः । औषध इति तत्त्वार्थः । 'शुकः स्याद्रक्षसि मुनौ
कीरे' इति । इन्द्राणी बन्धभेदः । सिन्धुराजः समुद्र इति रामपक्षे । कृष्णपक्षे-
जयद्रथः । देवेति भिन्नं पदम् । शबरः किरातः । शबरी किरातस्त्रीति चमत्कारः ।
देवेशानां वरः श्रेष्ठः । शबरी नाम तापसी रामभक्तेति रामायणकथेति तत्त्वार्थः ।
पुरा खल्विति । सुतेष्वरातिषु च समस्वभावः । पक्षे - शोभननक्षत्राणां
समानसौन्दर्यम् । 'रूपं स्वभावे सौन्दर्ये शुक्लादिपशुभेदयोः' इति । जैवातृक.
आयुष्मान् । पक्षे तच्छब्दवाच्यः । सुमं पुष्पम् । अशोको वृक्षभेदः । पक्षे - महितः
शोकाङ्कितो न । गिरि वाचि विगतभ्रमाः । पक्षे - पर्वतशोभाः । कलमा धान्य-