śrīnivāsacampū /113
This page has been fully proofread once and needs a second look.
भार, कल्क्यवतारे कलिसत्कृतमध्यवर्तीति । अपि च राम एव कृष्ण
इत्याचार्यो वक्ति तदपि विचार्यम् । कृष्णो हल्यानन्दनः, रामस्त्वहल्या-
नन्दनः कथं जातः । देव, शृणु कृष्णावतारकथामपि । पालितार्जुनोऽपि
भग्नार्जुनश्चासौ । किं च । बाललीलाचरित्रमस्ति तद्वाचामगोचरमस्माकम् ।
इतः परं देवः प्रमाणम्' इत्युक्त्वा तूष्णीं स्थिते सस्मिते राजमन्त्रिणि
संदेहदोलारूढे भूपेऽपि देवाचार्ये कुपित इव 'हंहो राजवल्लभ, बहुश्रुत,
प्रगल्भोऽसि श्लिष्टरचनायाम् । देवेऽप्यस्पृष्टदोषगन्धे शब्दसामर्थ्यात्कलु-
षमारोपयसि । शृणु रे,
गङ्गा पादसरोजपुष्परसति व्यालाधिपस्तल्पति
त्रैलोक्यं च कुटुम्बति द्विरसनद्वेषी रथत्यण्डजः ।
कालः शस्त्रति शासनत्यनुदिनं सा वेढवाणी गृह-
त्यब्धिर्यस्य रमाविलासरसिके तस्मिन्न किं सद्गुणाः ॥१३॥
किं च । सत्यव्रतदयाशाली न किं मत्स्यः, पृष्ठीकृतमन्दरागः कूर्मः,
वसुमत्यलंकृतो वराहः, हिरण्यदानदक्षो नृसिंहः, विक्रमप्रसिद्धो वामनः,
स वामनः । काननम् ; पक्षे - बलिर्दैत्यभेदः । सवनं यज्ञम् । अर्जुनं
स्वर्णम् । पक्षे कार्तवीर्यम् । बाणनाशः । पक्षे - शरभङ्गो ऋषिभेदः । सानन्दं
यथा तथा अहिं सर्पम् । भ्रान्त इति भावः । पक्षे - अहिंसायामानन्दम् ।
कलिना कलहेन सत्कृतानां मध्यवर्ती । पक्षे - कलिः समीचीनं कृतं चेति युगभेदौ
तयोर्मध्ये कल्क्यवतार इति पौराणिकाः । हली बलरामः । अहल्या गौतमप
त्नीति तत्त्वार्थः । विरोधस्तु शब्दतः । अर्जुनः पाण्डवभेदः । वृक्षभेदश्चेति
परिहारः । विरोधस्तु शब्दतः । हंहो आश्चर्ये । गन्धो लेशः । 'गन्धो गन्धक
आमोदे संबन्धे लेशगर्वयोः' इति । गङ्गेति । कालशब्दवाच्या दुर्गैव चक्रायुध-
मिति यमकभारतव्याख्या । किं च सत्यव्रतेति । सत्यमनलीकमेव व्रतमिति
स्तुतिः । सत्यव्रतो राजभेदः, तदर्थं मत्स्यावतार इति तत्त्वार्थः । वसुमतिश्च ।