śrīnivāsacampū /112
This page has been fully proofread once and needs a second look.
दायकः, बुद्ध इव नयज्ञप्रीतः कल्कीव सुकृतोद्भवनिदानम् । अथवाल-
मुपमित्या । स एव मत्स्यादिरित्यार्यवादः ।
भद्राख्यः प्रमदोज्ज्वलश्च सततं यो राजहंसश्रिया
भ्राजिष्णुः सुकुमारतां समगमद्यो वै घनोद्भासितः ।
स श्रीमाञ्जयति प्रकाममसुरश्रेणीकृपाणी हरि-
र्गङ्गावद्गजगण्डवद्गगनवद्गाङ्गेयवद्गेयवत् ॥ १२ ॥
इति यावद्वदति तावत्कश्चिद्राजमन्त्री बहुश्रुतो नाम कथयांबभूव – 'भो
देव, अनेन सुरपुरोधसोक्तमाकर्णयता मयापि किंचित्स्मृतमिदानीम् ।
जानाम्यहं तम् । स हि कृतदशावतार इति सत्यमेव । तथाप्युक्तगुणान्न
पश्यामि । तथाह्येनं मत्स्यावतारे नीरसंचरणचञ्चलं प्राहुः, कौर्म्येऽप्य-
वतारे धृतमन्दरागम्, वाराहे कुप्रीतियुक्तम्, नारसिंहे कयाधुतनयान-
न्दित इति, वामनावतारे बलिविरोधेन सवनं गत इति, भार्गवावतारे
अर्जुनद्विडिति, रामावतारे शरभङ्गमवापेति, बौद्धावतारेऽहिंसानन्दं व-
त्तिर्यस्याः सा सीता । भद्रा कृष्णवनिताभेदः । नयज्ञा नीतिज्ञाः । 'नयो न्याये'
इत्यमरः । पक्षे-यज्ञप्रीतो न । सुकृतं श्रेयः । पक्षे - कृतं युगभेदः । उपमितिः सादृ-
श्यम् । भद्रेति । भद्राख्यः 'कृष्णेति मङ्गलं नाम' इति स्मृतिः । 'क्व च नारायणेत्ये-
तद्भगवन्नाममङ्गलम्' इति श्रीभागवतम् । गङ्गापक्षे भद्रेति गङ्गायाः प्रवाहभेदः ।
प्रमदः संतोषः । गजगण्डपक्षे - प्रकृष्टो मदो दानम् । राजहंसश्रीः राजश्रेष्ठसंपत् ।
गगनपक्षे - चन्द्रसूर्यशोभा । 'सुकुमारं तु कोमलम्' इत्यमरः । गाङ्गेयपक्षे - षण्मु-
खत्वम् । घनो मेघः । गेयपक्षे-वाद्यभेदः । 'घन: सान्द्रे दृढे दार्ढ्ये विस्तारे
मुद्गरेऽम्बुदे । संघे मुस्ते घनं मध्वनृत्तवाद्यप्रभेदयोः ॥' इति । यथोचितं लिङ्ग-
व्यत्ययः । तथाह्येनमिति । नीरसं निर्वीर्यमाहुरिति निन्दा । नीरं जलमिति
तत्त्वार्थः । एवमग्रेऽपि । मन्दा मूढाः । पक्षे - अगः पर्वतः । कुत्सितप्रीतिः ।
धुतनयः कम्पितन्यायः । अयं कया वनितया नन्दित इति नृसिंहमाहुर्जना
इति योजना । पक्षे कयाधुर्हिरण्यकशिपोर्भार्या तत्तनयः प्रह्लादः । बलिभिर्विरोधः ।