2023-09-07 07:17:52 by jayusudindra

This page has been fully proofread once and needs a second look.

पञ्जरबन्धः सरसानां नदीनामधोगतिः । तस्य भगवतः श्रीनिवासस्य
दासी कन्यार्थिनी प्राप्तास्मि ।' इति तदुक्तमाकर्ण्य संतोषनिर्भरा देवी
राजानं शुद्धान्तमाहूय शुद्धान्तरा धर्मदेवतागदितं बकुलमालागमनं रूप-
विस्मापितमणिपुत्र्याः पुत्र्या दशां च निवेद्य विगलितवेद्यान्तरं चक्रे ।
सोऽपि सुरगुरुमानीय सभां विदितवृत्तान्तं चकार । स चाह वाचस्पतिः
वर्षावासरेणेव सर्वतोमुखपूर्णेन हर्षेण – 'रे रे राजकुलकमलिनीराजहंस,
 
कमला कमला यस्य तार्क्ष्यस्तार्क्ष्यो धरापते ।
नन्दिनी नन्दिनी यस्य स ते राजन्वरो वरः ॥ १० ॥
 
यत्कीर्तिर्हसितं मुखे कुचतटे मुक्तासरश्चन्दनं
फाले सत्तिलकं सिताब्जकलिकोत्तंसस्तथा कर्णयोः ।
हस्ते हीरककङ्कणं सुधवलं वस्त्रं नितम्बस्थले
पादे राजतहंसको जयति सा दिक्पङ्कजाक्षीततेः ॥ ११ ॥
 
किं च मत्स्य इव सदा वनविहाररसिकः, कूर्म इवोद्धृतचन्द्रगोत्रः, वराह
इव क्षमान्वितः, पुराणनृसिंह इव नृसिंहः, वामन इवोग्रमार्गणः, भार्गव
इव सहस्रबाहुगर्वहरः, राम इवाचलोद्भूतिभूषितः, कृष्ण इव भद्रानन्द -
 
'शूरश्चारुभटे सूर्ये' इति । स चाह वाचस्पतिरिति । सर्वतोमुखं जलम् ।
कमलेति । 'कमला श्रीवरनार्योः' इति । 'तुरंगगरुडौ तार्क्षौ' इत्यमरः ।
नन्दिनी गङ्गा। नन्दिनी पुत्री । 'नन्दिनी नलिनी सीता मालती च मलापहा ।
विष्णुपादाब्जसंभूता गङ्गा' इति स्मृतिः । 'वरो जामातरि वृतौ देवतादेर-
भीप्सिते । विज्ञे पुंसि त्रिषु श्रेष्ठे कुङ्कुमे तु नपुंसकम् ॥ मनाक्प्रिये वरं क्लीबे
केचिदाहुस्तदव्ययम् ॥' इति । यत्कीर्तिः रजतसंबन्धी पादकटकः । किं च मत्स्य
इवेति । अवनम् । पक्षे - वनम् । चन्द्रगोत्रं सुधांशुकुलम् । कनकाचलो मन्दरः ।
'क्षितिक्षान्त्योः क्षमा' इत्यमरः । मनुष्यश्रेष्ठः । पक्षे - अवतारभेदः । उग्रमार्गणः
शिवबाणः । पक्षे - क्रूरयाचकः । सहस्र बाहुर्बाणासुरः । पक्षे कार्तवीर्यः । चला
नेत्यचला । उद्भूतिरुत्कृष्टैश्चर्यम् । पक्षे अवला भूमिस्तस्या मुत् उत्कृष्टा भूविरुत्प-