śrīnivāsacampū /110
This page has been fully proofread once and needs a second look.
देवि, कथितं कथनीयम् । इतः परं स्थातुं न शक्यते । दुष्टा मे
सपत्नी । रौति शिशुरपि नाभिजातः । तदनुमन्यख । यामि यथागमम्'
इति । एवमुक्त्वा गते कुहनाधर्मदेवतास्वरूपे श्रीनिवासे धरादेव्यामपि
सत्यमाह धर्मदेवता । पुष्पसमयः पुष्पसमयश्च नर्तयति बालाजनमान-
सम् । कमलाशुगः कमलाशुगश्च दुःसह एव । भवतु सा का बकुला-
भिधाना । पश्यामि तावत् । यदि तदागमनमनलीकं तर्हि धर्मदेवतोक्त-
मनुष्ठेयमेवेति चिन्तयन्त्यां परेद्युः प्रातरेव यथोक्तपरिवारा सागतैव
बकुलमाला । तदनु राज्ञी सेयमेवेति विज्ञाय सानन्दं पीनपयोधराभ्यां
तदुरस्थलमाघट्टयन्ती कुचोन्नत्यालिङ्गनापर्याप्त हस्तनिर्मातारि कृतकोपा-
विष्करणा धातरि महाराजयोग्योपचारैः सत्कृत्य भवनं प्रापय्यागमन-
कारणमपृच्छत् ।
साप्यवदत् - 'देवि धरे, शृणु मदागमनकारणम् । यस्य वाणी
स्नुषा सत्यपूता च । कामस्तनयः सत्यश्च । सुग्रीवो देहः अश्वश्च ।
अञ्जमपहसति पदश्रीः नखश्रेणी च । भूरिशोभावहं वस्त्रं सौन्दर्यं च ।
सारसानुकारि नेत्रयुगलं वक्रं च । यस्मिन्राजनि द्वारकायां सुवृत्तस्य
मणेर्वेधः सदानस्य गजस्य मदः सुवंशस्य वेणोः कण्टकाक्रान्तिः शूर-
जातस्य शनेर्मन्दता सुस्निग्धानां वनितानां मानहानिः सुवचसां शुकानां
भावो धर्मः । द्रव्यत्वमित्यर्थः । मदनयुद्धानन्दम् । पक्षे - अनल्पयुद्धम् । अभि-
जातो नेति नसमासः । इति निन्दा । तत्त्वार्थस्तु ब्रह्मा विष्णुनाभ्युत्पन्न इति
पुराणम् । पुष्पकालः स्त्रीरजःप्रादुर्भावकालः । 'वसन्ते पुष्पसमयः' इत्यमरः ।
कमलाशुगो मन्मथः पद्मवायुश्च । 'आशुगौ वायुविशिखौ' इत्यमरः । साप्य-
वददिति । ब्रह्मभार्या । पक्षे - वाक् । मदनः अपेक्षा च । 'कामः स्पृहारेतसोः
स्थान्निष्कामे मीनकेतने' इति । 'भूरिस्वर्णे बहौ रुचिषु' इति । 'सारसः पक्षिभे-
देन्द्रोः सारसं सरसीरुहे' इति । यस्मिन्राजनीत्यादि । परिसंख्यालंकारः ।