2023-08-30 14:59:39 by jayusudindra

This page has been fully proofread once and needs a second look.

स्मरतिमनोज्ञा वनिताजनता वियोगे भर्तारं सौन्दर्येण च । स्मरोचिता-
काराः पुरुषाः स्त्रियश्च । स्मार्ता आचाराः शत्रवश्च ।.
किं च, स्मरचितव्यथो वियुक्तस्त्रीजनः न मित्रजनः । स्मयशोभाधरो
भटवर्गो न शत्रुवर्गः ।
यस्य च राष्ट्रे हरणोद्योगभ्रष्टाश्चोरा रिपुवीराश्च । हरागहृद्या चन्दन-
लिप्तकुचयुगी अधरपुटी च स्त्रीणाम् । हारावगुण्ठितकण्ठाः सुहृदः
शत्रवश्च । हेलासक्ताः कामिनः कर्षकाश्च ।
यस्य तुरङ्गस्थानेऽश्वा वेश्याश्च नटन्ति । त्वरान्वितमश्वचक्रं चक्रं च ।
त्वचारुचितशोभं मृगकदम्बं शत्रुवृन्दं च । त्वङ्गदभङ्गशोभान्वितो
मित्रभुजः शत्रुभुजश्च ।
यस्य चरविहितशोभमप्यरविहितशोभं चक्रम् ।
 
समूहः वियोगकाले भर्तारं स्मरति । 'विदेहतनयां भूयः स्मरन्' इति भानुदत्तः ।
पक्षे वनिताजनता सौन्दर्येण रतिमनोज्ञा सुरतहृद्येति योजना । स्मरवदुचितो
योग्य आकार आकृतिर्येषां ते । पक्षे रोचितः प्रकाशितः । 'रोचिताशान्तराला'
इति पदलसन्माला । स्मार्ताः स्मृत्युक्ताः । पक्षे आर्ताः । स्मरेण चिता संबद्धा
व्यथा यस्य । पक्षे रचितव्यथो नेत्यर्थः । स्मयो गर्वः शोभा च तयोर्धरो धारकः ।
पक्षे यशश्च भा च तयोर्धरो नेत्यर्थः । यस्य च राष्ट्र इति । हरणमपहरणम् ।
पक्षे हेति च्छेदः । रणः । हरस्यागः पर्वतः । 'मा द्वितीयेऽपि गौराङ्गि स्तने रचय
चन्दनम् । पश्येम मिलितावेतौ हेमाचलहिमाचलौ ॥' इति प्राञ्चः । पक्षे रागः
शोणिमा । हारेणावगुण्ठितो वेष्टितः कण्ठो येषाम् । पक्षे आरावो ध्वनिः । दुःखे-
नेति शेषः । 'हेलालीलेल्यमी हावाः' इत्यमरः । पक्षे इला । यस्य तुरङ्गेति ।
तुरङ्गस्थानं मन्दुरा । पक्षे त्विति च्छेदः । रङ्गस्थानं नाट्यस्थानम् । एवमग्रेऽपि t
त्वरा वेगः । पक्षे अराश्चक्रधाराः । त्वचा चर्मणा । पक्षे चारु च तच्चितशोभं
च । पश्चान्नञ्समासः । त्वङ्गदभङ्गशोभा स्फुरदभङ्गुरशोभा । पक्षे अङ्गदं बाहुभू-
षणम् । यस्य च रवीति । रविः सूर्यः । हिता सदृशी । अरा चक्रधारा ।