śrīnivāsacampū /109
This page has been fully proofread once and needs a second look.
त्यम्' इत्याह । सापि 'मूढे प्राग्वृत्तमवधारयेति वदामि । न पिशाचपी-
डेति । इयं किल वसन्ते कस्मिंश्चिद्वनप्रदेशे कंचन निर्जरं निर्जरपुण्ड-
रीकं पुण्डरीकगर्वहारिनेत्रं नेत्रप्रभाजितचन्द्रं चन्द्रकुलावतंसं तं संमा-
नितं पद्मासनादिभिरर्जुनवर्णेन घोटकेन वसनेन च विराजमानं राजमा-
नहरेण वक्रेण भुजेन च शोभमानं शिवमिव सवलयकरं कमपि निषा-
दचक्रवर्तिनमद्राक्षीत् । तत्र चाभिनिविष्टेयं कष्टां दशामवाप । तत्स-
त्यमसत्यं वेति विचारय ।'
शृणु राजाङ्गने, वर्तमानमपि । याचकजनतेव कामाभिभूता । चम्प-
कलतेवालिवर्गं न सुखयति । बौद्धचित्तवृत्तिरिव प्रसूनालोकनिस्पृहा ।
अशूरततिरिव शिलीमुखाद्भीता शुम्भभृत्यश्रेणीव सर्वदापिकाल्युद्विग्ना
पतिव्रतेव पल्लवतल्पं नानुमोदते । केवलं तापीव तपतीयम् ।
अयि भूपकुटुम्बिनि, भविष्यमपि शृणु । अद्य श्वो वा तच्छबरयूनो
धात्री बकुलमालाभिधाना आगच्छति कन्यार्थिनी । सा यदि कृतकृत्या
तर्हीयं सत्कविवज्जीवति । द्रव्यत्ववत्स्वभावमवलम्बते । पार्वतीव कुला-
चलख्यातिं प्रथयति । कमलपङ्क्तिरिव श्रीनिवासयोग्या भूत्वा वीरतति-
रिवातनुजन्यानन्दं तनोति ।
समे सत्ये देवयोन्यन्तरे तु ना ॥ ' इति मेदिनी । इयं किलेति । निर्जरपुण्डरीको
देवव्याघ्रः । देवश्रेष्ठ इत्यर्थः । 'सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थंगोचराः' इत्य
मरः । नेत्रं वस्त्रम् । चन्द्रं सुवर्णम् । 'पार्थेऽर्जुनः केकिनि कार्तवीर्ये नेत्रामयेऽप्येक-
सुतेsपि मातुः । वर्णे द्रुमे चाथ सिते त्रिलिङ्गो गव्यर्जुनी हेम्नि तृणेऽर्जुनं स्यात् ॥'
इति रत्नः । वलयः । पक्षे-सवो यज्ञः । वर्तमानमपीति । सूना हिंसा ।
'अहिंसा परमो धर्मः' इति बौद्धमतम् । पिकानामालिः । पक्षे काली पार्व-
त्यवतारभेदः । तपति तप्ता भवति । पक्षे तापी तु तपतीशब्दान्नदीभेदः ।
भविष्यमपीति । जीवो बृहस्पतिः । तद्वदाचरतीत्याचारार्थे क्विप्। स्वं द्रव्यं