śrīnivāsacampū /108
This page has been fully proofread once and needs a second look.
विटम् – 'कावेरी ते दुःखमपनुदति ।'
अन्यम् – 'शरदि धात्रीदर्शनं भवति ॥
अन्यम् – 'इन्द्रं प्रार्थय । संतानलाभो भवति ।'
मन्दपुत्रां प्रति — 'वसन्ते तवाङ्गजः प्रौढो भवति ।' इति ।
एवं जनमात्रं विश्वासपात्रमापादयन्ती 'समर्थेयं कालत्रयवृत्तान्तमात्र-
कथने' इति स्तूयमाना राजवल्लभयापि धरया चेटीमुखेनाकारिता राज
भवनमासाद्य देव्या पृष्टा 'क्षुधितास्मि । अन्नं देहि । ततः परं सर्वमपि
ब्रवीमि' इति तज्जातिचापलं मध्ये मध्येऽभिनयन्ती श्रीबदरीनारायण -
मल्लिकार्जुनवैद्यनाथश्रीरङ्गेशविरूपाक्षवीरभद्रनडगुण्डगोकर्णलिङ्गेति देव-
ताः प्रार्थयन्ती, यष्टिकां चालयन्ती रुदन्तं शिशुं ताडयन्ती, 'अयि
राजदास्य:, इयं राजाङ्गना यदुद्दिश्य पृच्छति सा विपदङ्गजातानुब-
न्धिनी । महिप्या वृत्तमिदम् । किमये, न सुरभिवृत्तान्त एषः । किं
तूष्णीं तिष्ठथ सत्यमसत्यं वा' इति मुहुर्मुहुस्त्रासयन्ती, 'अयि राजाङ्गने,
ज्ञातमिदानीम् । इयमनङ्गपीडा विस्तरेण वक्तुं नावसरः । प्रकृतमनुस-
रामि । तदाकर्णय भूतवृत्तान्तम्' इत्यकथयत् । तत्रान्तरे देवी सभयम्
'अयि धर्मदेवते, किं मत्पुत्र्याः पिशाचबाधेति भणसि । किं सत्यमस-
धात्री जनन्यामलकी वसुमत्युपमातृषु' इति । संतान: संततिः । पक्षे - देवतरु-
भेदः । अङ्गजः पुत्रः । पक्षे - मदनः । अङ्गजातेति । लोके यावन्त उपद्रवाः
सन्ति तावन्तः स्वयमुक्त्वा यदुपद्रवोच्चारणकाले श्रोतृणां शिरःकम्पाद्यङ्गविकारो
जायते स एवोपद्रव इति ज्ञात्वा तदनुसारेण फलाफलं वक्तव्यम् । यत्रकुत्रापि
शिरः कम्पाद्यभावे किमये सत्यमसत्यं वेति किमपि नोच्यत इति भर्त्सनम् ।
इति धर्मदेवतास्त्रीणां संप्रदायः । तथा हि सा विपदवयवसमूहानुबन्धिनी । सैरभ्या
इदं वृत्तम् । धेनुवृत्तान्तः । अशरीरपीडेति तज्जातिसंप्रदायाभिनयप्रकारः ।
तत्त्वार्थस्तु सा विपत् सुतानुबन्धिनी । राजभार्याया इदं वृत्तम् । वसन्तवृत्तान्त
एषः । मन्मथपीडा । 'भूतं क्ष्मादौ पिशाचादौ जन्तौ क्लीबं त्रिधूचिते । प्राप्ते चित्ते