2023-09-06 15:19:13 by jayusudindra

This page has been fully proofread once and needs a second look.

लसमानसप्तपत्रा गलितघनध्वान्तनिकररमणीया ।
शरदः प्रभातवेला बभार लीलां झटित्येव ॥ ९ ॥
 
अथोदिते सूर्ये तत्र तत्र कालत्रयवृत्तान्तं कथयन्ती राजभवनवी-
थिकां प्रविश्य तत्रापि जनकदम्बवेष्टिता धर्मदेवता तत्तद्वृत्तान्तं कथयति
स्म । तथाहि ।
कामपि वेश्यां प्रति — 'पूर्वेद्युर्द्वारोपान्त एव कश्द्भुजङ्गो दृष्टः ।
स त्वया मन्त्रबलाद्वन्धे निवेशितः ।'
कंचन विप्रं प्रति — 'अये, त्वया रात्रौ रामाराधनं कृतम् । इदानीं
बहुधान्यालाभचिन्तया म्लानमुखोऽसि । पुण्डरीकनयनाराधनं कुरु ।
फलवान्भवति ते मनोरथः' इति ।
कंचन वणिजं प्रति — 'रात्रौ त्वया नीवी मोचिता । इदानीमपि
मधुराधरागमनं चिन्तयसि । सत्यानृतवृत्त्या ते कार्यसिद्धिः ।'
दुर्गतं प्रति – 'ग्रीष्मे वसूल्लासं पश्यसि ।'
अपरं प्रति — 'सूर्येऽस्तमिते श्यामालाभो भवति ।'
अन्यं प्रति — 'मध्याह्ने मित्रं स्वच्छमवगच्छसि ।'
अन्यम् – 'पौर्णमास्यां प्रसन्नं राजानं द्रक्ष्यसि ।'
 
कलयोर्मध्ये पर्णे नृपतिमन्त्रिणि । योग्यभाजनयोः' इति । लसमानेति ।
सप्तपत्रः सप्ताश्वः सूर्यः । पक्षे - कदलीभेदः । 'वाहने च च्छदे पत्रम्' इति ।
तथाहीति । 'पूर्वेद्युः पूर्ववासरे' इति रुद्रः । धान्यम् । नारायणः । अन्या
स्वैरिणी वनिता । 'नीवी स्त्री कटिबन्धनवसने मूलद्रव्ये परिपणे' इति । मधुरा
मधुरादेशभूमिः । 'सत्यानृतं तु वाणिज्यम्' इति । पक्षे वनिता किंचित्सत्या
'किंचिदसत्या तादृशी या वृत्तिः । 'मधुरस्तु प्रिये स्वादौ रसे च रसवत्यपि ।
मधुरा मधुरापुर्यां' इति । 'दरिद्रो दुर्गतोऽपि सः' इत्यमरः । अस्तः पश्चिमाद्रिः ।
श्यामा स्त्रीभेदः । पक्षे - रात्रिः । 'कावेरी स्यात्सरिद्भेदे पण्यनारीहरिद्रयोः' इति ।