2023-09-06 15:12:51 by jayusudindra

This page has been fully proofread once and needs a second look.

स्नेहक्षय एव फलं स्यात् । यथा निशान्तं न याति तथा कुरु । अचि-
रादेव वसुमानागच्छति । यश्च हिततरः पद्मिनीनाम् । ततः परमनेन
किं ते प्रयोजनम् ।' इति ।
काचिद्वेश्या गृहकृत्यनिवेदनव्याजाद्दुहितरं शिक्षयति — 'अनर्ध्यम-
णिताभिज्ञे, कण्ठस्थं स्नेहप्लुतं नायकं सत्कुरु न बन्धनं प्राप्नोति सुरभिश्च
तन्न पश्यसि कुतः । दुर्वत्से, प्रवृत्तिं जानीहि । क्व गता गुणाः । न
पात्रे ते प्रणयः' इति ।
काचित्सखी चतुरङ्गलीलानिवेदनव्याजेन जारं बोधयति -- 'प्रियसख,
नन्वस्याः कुञ्जरं गृहाण । स्मरनवाजिकृतचातुर्यमस्याः पश्य । पश्य
सेनामेनां त्वन्निकटगाम् । प्रकटीकुरु रथम् । पात्रं मा त्यज । योजय
बन्धे' इति । एवमत्रान्तरे
 
स्तुतिः । विकारपक्षे मन्मथविकारम् । द्रव्यदानं विना प्रीतिपूर्वकम् । तैलनाशः ।
'निशान्तपस्त्यसदनम्' इत्यमरः । द्रव्यवान् स्त्रीविशेषाणामाप्तः । अनर्ध्येति ।
मणिता रत्नत्वम् । कण्ठो गलः । नायको हारमध्यमणिः । स्नेहस्तैलम् । तादृशो
मणिः पुनर्न मिलतीति भावः । पक्षे 'मणितं रतिकूजितम्' इत्यमरः । समीपप्र-
देशः । नेता । प्रेमेति । सुरभिर्गौः । बन्धनं न प्राप्नोति । दुर्वत्से दुष्टतर्णके
विषये । गुणा रज्जवः । पात्रं भाजनम् । पक्षे अयं नायको मनोज्ञः । नवं नूतनं
घनं चेति समुच्चयः । दुर्वत्से दुष्टपुत्रि । प्रवृत्तिं प्रवृत्तिमार्गम् । संन्यासिवन्निवृत्ति-
मार्गासक्ता मा भवेति भावः । सौमनस्यादयः । योग्यः । 'योग्यभाजनयोः
पात्रम्' इत्यमरः । 'वत्सः पुत्रादिवर्षयोः । तर्णके नोरसि क्लीबे' इति । चतु-
रङ्गेति । कुञ्जरं गजम् । वाजी अश्वः । न स्मर । सेना सैन्यम् । पश्य पश्येति
योजना । रथं स्यन्दनम् । कर्णाटका 'रथ' इति महाराष्ट्रा 'उष्ट्र' इति कथयन्ति ।
पात्रं मन्त्री । बन्धस्तल्लीलाप्रसिद्धः 'मात' इति भाषा । पक्षे-कुन्तलम् । जात्ये-
कवचनम् । स्मरनवाजिर्मन्मथनवयुद्धम् । पश्य । इनेन सहिता सेना । भर्तृ-
'मतीत्यर्थः । तां पश्य । पौरुषं प्रकटीकुरु । इदं वस्तु योग्यम् । बन्धः कामशास्त्रे
प्रसिद्धः । 'कुञ्जरो करिकुन्तल' इति । 'रथः पौरुषदेहयोः' इति । 'पात्रं तु