śrīnivāsacampū /104
This page has been fully proofread once and needs a second look.
अपरः कस्याश्चन वृत्तान्तं सखायं प्रत्याह-
'ज्यावल्लीलुलिता शिवस्य मलिनं चक्रं नखाङ्कोल्लस-
त्कोदण्डं मुकुलीबभूव च शरस्याद्यावतारक्रमः ।
आयस्ता सुमवाटिकाशिथिलितप्रायांशुकः स्यन्दनः
प्रायेणाञ्जमुखी सखे रिपुरणश्रान्तेव संलक्ष्यते ॥७॥' इति ।
कश्चिदपरां मुग्धावस्थामारभ्य क्रमेण रूढयौवनां कामुकीं वर्णयति
'यत्पुष्पेषुशिलीमुखावृतिरभूत्सौरभ्यमासीत्ततः
पुष्पं चोत्कलिका च पल्लवकुले सारक्ततां ते ततः ।
पश्चात्सद्विटपालिवेष्टनविधिः पश्चाद्वसापेक्षिता
यस्यास्तद्विरला लता विजयते सा कापि नेत्रोत्सवः ॥ ८ ॥' इति ।
इति । धर्मदेवता त्रैकालिकवृत्तान्तकथका नारीभेदः । ज्यावल्लीति । शिवस्य
ज्या मौर्वी शेषः । अत्रोपमेयं विहायोपमानेनैव कार्यनिर्वाहः । रूपकातिशयो-
वत्यलंकारः । अतः शेषशब्दस्यार्थो वेणी । तत्सदृशत्वात् । लुलितेति रतान्त-
चिह्नम् । अतो रिपुरणश्रान्तेवेत्युक्तम् । रिपुर्मदनः शिवस्येति सर्वत्र संबध्यते ।
एवमग्रेऽपि । चक्रं रथाङ्गम् । चन्द्रः मुखम् । मलिनं म्लानम् । कोदण्डं धनुः ।
मेरुः स्तनः । शरो नारायणः तस्याद्यावतारो मत्स्यः नेत्रम् । सुमवाटिका तत्पु.
ष्पभूतं चन्द्रस्थानत्वात् । आकाशं मध्यः । स्यन्दनो रथः । भूमिर्नितम्बः विस्तृ
तत्वात् । शिवस्य त्रिपुरहृतिकाले शेषादयो मौर्व्यादयो जाता इति पुराणम् ।
स्रादृश्यं सर्वत्र यथासंभवमूह्यम् । यत्पुष्पेष्विति । लोके तावल्लतानामादौ
जलापेक्षा ततश्च स्थूलशाखारोहणं किसलयोद्भेदः कोरकोद्गतिः कुसुमोद्गमः
सौरभ्यं भृङ्गावलिरिति क्रमः । अस्या लतायास्तु न तथा । किं तु आदौ भृङ्गा-
वृतिः ततः सौरभ्यमित्यादि व्युत्क्रमस्य दृष्टत्वात् विरला लतेत्युक्तम् । लोकविल-
क्षणेत्यर्थः । नेत्रोत्सव इति कार्यकारणयोरभेदः । अत्र लताशब्दाद्वनिता गृ<flag></flag>ते ।
तथा हि पुष्पेष्विति । भिन्नं पदम् । शिलीमुखा भृङ्गा इति लतापक्षे । वनिता-
पक्षे एकमेव पदम् । मदनबाणा: । सौरभ्यं परिमलः । पक्षे चारुत्वम् ।
'पुष्पं विकासे कुसुमे स्त्रीणां रजसि च स्मृतम्' इति । 'उत्कृष्टकोरकाः ।