śrīnivāsacampū /103
This page has been fully proofread once and needs a second look.
तत्रोदाहरणं ताराद्वयं कलयतु देवः । तत्रैका तारा शृङ्गारदीक्षितत्वं
राजत्वं कलानिधित्वं च चन्द्रे दृष्ट्या स्पृहयांबभूव । द्वितीया तु सुग्रीवं
गजादियुक्तं कलालापेन तोषयन्तं कपिराजमकामयत् । देव, इदं ताव -
त्स्वैरिणीवृत्तम् । का वा कुलकन्या एकत्र प्रकटितानुरागा भूत्वापरत्र
सक्तमानसा भवेत् । अयि रुक्मिणीजाने, किमत्र शङ्कया । तस्माद्भणामि
वसन्तश्रीर्नियतिश्च मेलयति देव्या । सोऽप्यचिरादेव महोत्सवो विश्वं
विस्मापयति' इति ।
अथ देवोऽप्यचिन्तयत्— 'लोके पुरुषः केवलं सरलो न स्यात् ।
सरलसच्छोभः कुचभारः पीड्यते । नवनवकपटोल्लसितो मान्यो भवति ।
वक्र एव गुरुरिति सद्वृत्तशास्त्रम् । भगवान्नारायणोऽपि महामायायुक्त
एव पुरुषोत्तमो जातः । अतः कपट एव सर्वार्थसाधकः' इति विचिन्त्य
भारतसमरभूमिरिव गुल्मोद्भासिनी, वर्षासरिदिव मध्यदेशोल्लसत्पोता,
विन्ध्याटवीव वेत्रलतावती, शंभुमूर्तिरिव कदर्पकमालालंकृता, प्रावृट्-
लक्ष्मीरिव व्यालम्बिपयोधरा धर्मदेवता भूत्वा नारायणपुरं प्रविश्य निशि
पौरविलासं ददर्श । तत्र कश्चिद्विलासी कांचन स्त्रियं वक्ति-
'नीलाम्बरासि वामोरु मुसलं च करे तव ।
योग्या तवास्तु रामाख्यातनुयुद्धं भजाधुना ॥ ६ ॥' इति ।
गुरुपत्नी वालिभार्या चेति ताराद्वयम् । शोभना ग्रीवा यस्य सः । इत्यनेन
सौन्दर्यमुक्तम् । कलालापो विद्यालाप इति चमत्कारः । कंलोऽव्यकमधुर इति
तत्त्वार्थः । अथ देवोऽपीति । सरलक्षासौ सच्छोभश्चेति प्रकृतोपयुक्तार्थः ।
कुचभारपक्षे तु सरेण हारेण । कपटः । पक्षे-पटः । अनृजुबुद्धिः । पक्षे-
मात्राद्वयात्मको गुरुवर्णो वक्ररेखया दर्शनीय इति तत्संप्रदायः । महति
दीर्घसंयुक्तशीर्षके । 'दुर्वहा मायेत्यविद्येति नियतिर्मोहिनीति च । प्रकृतिर्वास-
नेत्येवं तवेच्छानन्त कथ्यते ॥ इति श्रीभाष्यम् । गुल्मो वेत्रपुटिका । पक्षे-
व्यूहभेदः । 'यानपात्रे शिशौ पोतः' इत्यमरः । 'कपर्दक: शंभुजटावराटकयोः