2023-09-05 15:48:42 by jayusudindra

This page has been fully proofread once and needs a second look.

महाराजसंपदमनुभवति । तिष्ठत्वेतत् । देवि, साधय साधनीयम् । अह-
मपि यथाशक्ति श्रीनिवासस्य कार्यैकदेशसाधको भवामि' इति बकुलापि
श्रुततद्वचना निर्गत्य तदाश्रमात्
 
चित्रं स्मृतिपथं प्राप्ते यस्मिन्निष्कण्टका मही ।
तं श्रीनिवासं संस्मृत्य यच्छुकोऽभूत्सकण्टकः ॥ ४ ॥
 
इति सानन्दं चिन्तयन्ती कतिचित्पन्थानमतीत्य राजपुत्र्याः शरीर-
तापापनोदाय द्विजजनक्रियमाणरुद्राभिषेकं सुवर्णमुखरीती रस्थमगस्त्येश्व-
रमासाद्य
 
सा वै पीनपयोधरा स च पुनः श्रीनीलकण्ठोऽभव-
त्स्थाणुत्वं प्रकटीचकार स च सापर्णाभिधानं गता ।
तो जातौ कलधौतकान्तिरुचिरावा चन्द्रमा तारकं
तद्दाम्पत्यमहो जयत्यनुकलं श्रीपार्वतीशर्वयोः ॥ ५ ॥
 
इति स्तुत्वा तद्विजपरिचर्यापरै राजदासीजनैः समं तत्पुराभिमुखी बभूव ।
इतः श्रीनिवासस्तु चपलखभावो मरालकमाह – 'वयस्य, बकुला
तावद्गता । परं कार्यं साधयति वा न वा । प्रायो मुग्धाङ्गनानां चित्तं
राजप्रसादवच्चपलम् । तत्र मन्दाक्षभूयिष्ठे किरातवन इव मृगो भीतभीतः
प्रसरति मदनः । तत्र किं करणीयम्' इति । सोऽप्याह – 'देव, मैवम् ।
यतः प्रायशो लोके वनितानां स्पृहास्थानं सौन्दर्यमैश्वर्यं च विद्या च ।
 
भीपमिति शत्रुपक्षेऽर्थः । चित्रमिति । 'दमे संतीक्ष्णावयवे सूच्यग्रे क्षुद्रवैरिणि
रोमाञ्चे कण्टकः' इति । सा वै इति । मेघमयूरयोः । शुष्कतरुनिष्पर्णयोः ।
अर्थतः अन्तिमविशेषणे शब्दतः । योग्यसंबन्धदर्शनाज्जयतीत्युक्तम् । इति
चमत्कारः । तत्त्वार्थस्तु – 'महेश्वरे मयूरे च नीलकण्ठः' इति । 'स्थाणुः कीले
<flag></flag> पुमान्' इति । 'अपर्णा पार्वती' इत्यमरः । 'कलघौतं रूप्यहेम्नोः' इत्यमरः ॥