śrīnivāsacampū /101
This page has been fully proofread once and needs a second look.
अप्रभुरस्मि युक्तायुक्तपरिज्ञाने । इत्येवं मय्येवार्पितभरे देवे मयाद्य किं
कर्तुं शक्यमित्येवमुक्त्वा विरराम । संवृतवचनायां तस्यां शुकोऽपि
स्मारितश्रीनिवासः पुलकाङ्किततनुः शनैस्तां बभाषे– 'देवि बकुले,
कुशलासि वक्तुम् । यदत्यक्तार्यभावया देवस्य चित्ताराधनं कृतम् ।
अनुसरणीयाः खलु निरर्गलप्रचाराः प्रभवः ।
अस्त्वेतत् । तावुभावपि दृष्टपूर्वौ । तयोर्योग्य एव संयोगः । यतः सा
श्यामा स तु कृष्णः । सा पद्मिनी स तु वसुमान् । सा कान्तालका स
तु राजराजश्च । सा रूपेण हरिणी स तु यशसा हरिणश्च इति ।
तथापि सा सुभद्राकृतिरिति दोलाकर्म करोति चेतः ।
अथ वा आः किमस्ति अगम्यागमनशङ्का भूपानाम् । रामो जनक-
सुतायामनुरक्तः । विचित्रवीर्यस्तु अम्बिकामुपयेमे । नदीसुतो वाहिनी -पतित्वमाप ।
राजनीतिं धिगब्जातधिक्कारक्षमलोचने ।
इलायामनुरक्तोऽभूदिलापुत्रः पुरुरवाः ॥ ३ ॥ इति ।
अथ वा महत्सु दोषारोपणमेव दोषः । यथाकथंचित्प्राज्ञेन कृतोपय-
मसाहाय्येन भवितव्यमित्यार्यवादः । लोके हि शत्रुमप्युपयमं नीत्वा
इति सुधा । 'धर्मो ना धनुषि प्रोक्तः' । 'आर्या वृत्तभेदः । 'प्रश्नोऽनुयोगः
पृच्छा च' इत्यमरः । वनितापूर्वकानुरागाभावे रसाभास इति कविसमयः ।
'भाराविशययोर्भरः' इति । तावुभाविति । अलका कुबेरपुरी । 'राजा उभौ
च नृपतौ क्षत्रिये रजनीपतौ । यक्षे शक्रे च पुंसि स्यात्' इति सुधा । 'हरिणौ
पाण्डुसारङ्गौ हरिणी चारुयोषिति । सुवर्णप्रतिभायां च हरितावृत्तभेदयोः ॥
इति । डोलेति पाठः प्रामादिकः । 'दोलायां शाद्वले दः स्याद्वैदूर्येऽपि च डं
त्यजेत्' इति श्रीनाथः । अथवेति । 'जनकः पितृभूपयोः' इति । 'अम्बिका
पार्वतीमात्रोर्धृतराष्ट्रस्य मातरि' इति । राजनीतिमिति । 'बुधपत्न्यामिडा
चेला गवि वाचि क्षिती तथा' इति । उपयमो विवाह इति तत्त्वार्थः । यमस-