śrīnivāsacampū /100
This page has been fully proofread once and needs a second look.
नवनीतकोमलं ते चेतः । कश्चित्पुरुषः स्वशत्रुमपि विवाहशोभया
योजयन्महतीं कीर्तिं प्राप्नोति । अतो मां कृतार्थं विधाय परां समा-
ख्यामवाप्नुहि' इति साञ्जलिबन्धमभणत् । 'महर्षे, किं करोमि किंकरी ।
तदाज्ञा प्रमाणम्' इत्यवतीर्य पवनाशनाचलात्प्राप्य कपिलेश्वरम् ।
गुणवद्गुणोऽप्यहीनो मार्गणवन्मार्गणोऽपि लक्ष्मीवान् ।
धर्मो धर्मवदचलो यस्य स पायात्पुरारातिः ॥ २ ॥
इत्यार्ययोल्लसन्महाश्लेषया गौर्येवापरया नन्दयन्ती तमुमानायकमिह प्राप्ता-
स्मि । बादरायणे, इदमपरमभिहितं देवेन – 'बकुले, यद्यत्र कन्यासंब-
न्धिनामनुयोगः प्रसरेत्तदा किं कथयसि । अद्याप्यकृतविवाह इति
कालातिक्रान्तिदोषसूचनम् । जातविवाहोऽयमिति सपत्नीस्थितिज्ञापनम् ।
तस्यामलब्धसंतान इत्यनतिपुंस्त्वव्यञ्जनम् । द्वितीयो विवाह इत्यमङ्ग-
ल्योद्बोधनम् । भार्यास्य विप्रकृष्टा वर्तत इति गृहच्छिद्रावेदनलाघवम् ।
सा दुश्चरित्रेत्यलीकवादमहापातकम् । नैकया तुष्यतीत्यव्यवस्थाद्योत-
नम् । रूपोन्मादित इति वनितापूर्वकानुरागाभावकथनम् । त्वया प्रलो-
भितोऽयमिति कुमारीजनविरुद्धशङ्काबीजोद्भावनम् । अभिनवया इति
पापीयसा निष्कारणपरोपतापदक्षेण नारदेन भिद्यते रहस्यं पुराणपुरुष
इति । अथ चतुरासि वक्तुम् । किमपि वा वद । कथमपि वा कुरु ।
शेषः । अरमलं जयन् । 'रङ्कुशम्बररोहिषाः' इत्यमरः । 'अलंकारो विभूषणम्'
इत्यमरः । लङ्काराती रामः इति तत्त्वार्थः । विरुद्धचर्या तु शब्दत एव सिद्धा
सोऽपीति । मांसलं पृथुलम् । विवाह उपक्रमः । इति तत्त्वार्थः । शत्रुपक्षे
तु विगतवाहनशोभयेति । विः अभाववाची । गुणवदिति । गुणो मौर्वीं ।
अहीनः शेषः । मार्गणो बाणः । याचकवत् । धर्मो धनुः । अचलोरुः । त्रिपुर-
हृतिकाले शेषो मौर्वी नारायणो बाणः मेरुर्धनुः शिवस्येति पुराणम् । 'गुणो
मौर्व्यामप्रधाने रूपादौ सूद इन्द्रिये । त्यागे शौर्यादिके सत्त्वसंध्याद्यावृत्तिरज्जुषु ॥ '