2023-08-30 14:53:42 by jayusudindra
This page has been fully proofread once and needs a second look.
त्तिश्च । चामरश्रीविराजिता कीर्तिः प्रजा च । चातुर्यान्विता द्विजाः शत्र-
वश्च । चमत्कृतिज्ञा मन्त्रिणः कवयश्च । चारुतोल्लसिताः स्वस्त्रीक्रीडा: प-
रस्त्रीक्रीडाश्च । चतुरङ्गलीलान्विताः क्वचित्कालक्षेपा रथाश्च । चराधिको-
ल्लसितं वार्तानिवेदनं चेतश्च । चाराधिकोल्लसितं मण्डलेश्वरकदम्बं चक्रं
च । चापक्रीडा युधि यमुनायां च । चरणोत्पन्ना गङ्गा कीर्तिश्च । चप-
लालसमाना स्त्रीकटाक्षततिः शत्रुश्रेणी च । चेलाकर्षणतत्पराः स्त्रीणां
कामिनो वर्षासु कर्षकाश्च । चकोरकानन्ददायी मुखचन्द्रः कुचश्च वनि-
तानाम् । चपेटिका शत्रुमुखे चर्या च गुणानाम् । चेतःप्रसादरम्यः
सर्वोऽपि जनः कटाक्षश्च ।
यस्य स्मरविद्वेषी सुन्दरभावः प्रतापश्च । स्मरणश्लाघ्या द्विजा वीराश्च ।
दण्डः । एवमग्रेऽपि चेति च्छेदो ज्ञातव्यः । चापस्यापकारिणी समाना । 'बन्धुश्चोरः
सुहृद्वादी प्रख्यः कल्पः प्रभः समः । देशीयदेश्यरिप्वाभसोदराद्या इवार्थकाः ॥'
इति कल्पलता । पक्षे पापकारिणी नेत्यपापकारिणी । अमराणां श्रीरिव श्रीस्तया
विराजिता । आतुर्यमातुरत्वम् । मत्कृतिर्मद्ग्रन्थः । चारुता चारुत्वम् । पक्षे रुतो-
ल्लसिता नेत्यरुतोल्लसिता । रुतं ध्वनिः । यद्यपि 'तिरश्चां वाशितं रुतम्' इत्यमरः ।
तथापि विशेषशब्दः सामान्यपरः । चतुरङ्गमिति लीलाभेदः । चरा वार्तावेदकाः ।
पक्षे राधिका चारा वार्तावेदकाः । पक्षे अराश्चक्रधाराः । चक्रं सुदर्शनम् । चापो
धनुः । अपां समूह आपम् । चरणः पादः । पक्षे रणो युद्धम् । चपलेति समा-
नेति च्छेदः । 'लसमाननवांशुकः' इति माघः । पक्षे पलालं तृणभेदः । 'कृषेरिव
पलालकुलम्' इति पण्डितमणिः । चेलं वस्त्रम् । पक्षे इला भूः । चकोरः पक्षि-
भेदः । 'सुधाबद्धग्रासैरुपवनचकोरैरनुसृतां' इति कुवलयानन्दे । पक्षे कोरकः
कोशः । चपेटिका 'चफराक' इति महाराष्ट्राः । पक्षे चर्याकत्रीं गुणानां पेटि-
केति योजना । चेतो मनः । पक्षे इतः । मयीति यावत् । यस्य स्मरेति ।
स्मरविद्वेषी मदनशासनः । पक्षे स्मेति च्छेदः । रविसमानः । एवमग्रेऽपि स्मेति
च्छेदो ज्ञेयः । स्मरणं स्मृतिः । पक्षे रणः । मनोज्ञा मनोहरा वनिताजनता स्त्री-