This page has been fully proofread once and needs a second look.

पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥ (सशङ्खचक्रं
सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् ॥ सहारवक्षःस्थलशोभि
कौस्तुभं नमामि विष्णुं शिरसा चतुर्भुजम् ॥ छायायां पारिजातस्य हेम-
सिंहासनोपरि । आसीनमम्बुदश्याममायताक्षमलंकृतम् ॥ चन्द्राननं
चतुर्बाहुं श्रीवत्साङ्कितवक्षसम् रुक्मिणीसत्यभामाभ्यां सहितं
कृष्णमाश्रये ॥)
 
ओं
 
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १ ॥
 
श्रीविष्णुसहस्रनामनिरुक्तिः
 
(1) विश्वम् - विश्वं सर्वत्र पूर्णत्वात् स्वरूपगुणवैभवैः । (2) विष्णुः -
चराचरेषु भूतेषु वेशनात् विष्णुरुच्यते ॥ (3) वषट्कार:- स्वेच्छया यो
वशे सर्वे वषट्कारः करोति सः । (4) भूतभव्यभवत्प्रभुः - त्रिकालवर्तिनां
शेषी भूतभव्यभवत्प्रभुः ॥ (5) <error>भूतकुत्</error>-<fix>भूतकृत्</fix> भूतानि योऽसौ सृजति
स्वातन्त्रयेण स भूतकृत् । (6) भूतभृत् - भूतभृत् भूतभरणात्
( 7 ) भावः - श्लिष्टत्वात् भाव ईरितः ॥ (8) भूतत्मा - शरीरभूतभूतानां
भूतात्माऽऽत्मतया स्मितः । (9) भूतभावनः- धारकादिप्रदानेन यश्च
वर्धयति स्वयम् ॥ भूतानि नित्यं झटिति सतु स्यात् भूतभावनः ।
 
पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः पुरुषस्साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २ ॥
 
( 10 ) पूतात्मा - शरीरत्वाच्च जगतः तद्दोषैर्न कदाचन ॥ लिप्यते यः
स पूतात्मा न भुंक्ते च फलानि यः । (11) परमात्मा - येन पूभूतान्यात्म-
वन्ति नायमन्येन चात्मवान् ॥ अतो ह्यात्मेश्वरत्वाच्च परमात्मा प्रकीर्तितः ।
(12) मुक्तानांपरमागतिः - ब्रह्मसाधर्म्यमापन्ना मुक्तास्तेषां परा गतिः ॥