This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्त्रनामस्तोत्रम्
 
पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥ (सशङ्खचक्रं

सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् ॥ सहारवक्षःस्थलशोभि

कौस्तुभं नमामि विष्णुं शिरसा चतुर्भुजम् ॥ छायायां पारिजातस्य हेम-

सिंहासनोपरि । आसीनमम्बुदश्याममायताक्षमलंकृतम् ॥ चन्द्राननं

चतुर्बाहुहुं श्रीवत्साङ्कितवक्षसम् रुक्मिणीसत्यभामाभ्यां सहितं

कृष्णमाश्रये ॥)
 

 
ओं
 

 
विश्वं विष्णुर्वषटाट्कारो भूतभव्यभवत्प्रभुः ।

भूतकृद्भुभूतभृद्भावो भूतात्मा भूतभावनः ॥ १ ॥

 
श्रीविष्णुसह स्रनामनिरुक्तिः
 

 
(1) विश्वम् - विश्वं सर्वत्र पूर्णत्वात् स्वरूपगुणवैभवैः । (2) विष्णुः -

चराचरेषु भूतेषु वेशनात् विष्णुरुच्यते ॥ (3) वषट्कार:- स्वेच्छया यो

वशे सर्वे वषट्कारः करोति सः । (4) भूतभव्यभवत्प्रभुः - त्रिकाल वर्तिनां

शेषी भूतभव्यभवत्प्रभुः ॥ (5) <error>भूतकुत्-</error>-<fix>भूतकृत्</fix> भूतानि योऽसौ सृजति
स भूतकृत् । (6) भूतभृत् - भूतभृत् भूतभरणात्
 

स्वातन्त्रयेण
 
-
 
स भूतकृत् । (6) भूतभृत् - भूतभृत् भूतभरणात्
( 7 ) भावः - श्लिष्टत्वात् भाव ईरितः ॥ (8) भूतत्मा - शरीरभूतभूतानां

भूतात्माऽऽत्मतया स्मितः । (9) भूतभावनः- धारकादिप्रदानेन यश्च

वर्धयति स्वयम् ॥ भूतानि नित्यं झटिति सतु स्यात् भूतभावनः ।
 
-
 

 
पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।

अव्ययः पुरुषस्साक्षी क्षेत्रशोज्ञोऽक्षर एव च ॥ २ ॥
 

 
( 10 ) पूतात्मा - शरीरत्वाच्च जगतः तद्दोषैर्न कदाचन ॥ लिप्यते यः

पूतात्मा न भुंक्ते च फलानि यः । (11) परमात्मा - येन मूपूतान्यात्म-

वन्ति नायमन्येन चात्मवान् ॥ अतो ह्यात्मेश्वरत्वाञ्च्च परमात्मा प्रकीर्तितः ।

(12) मुक्तानांपरमागतिः - ब्रह्मसाधर्म्यमापन्ना मुक्तास्तेषां परा गतिः ॥
 
-