This page has been fully proofread once and needs a second look.

लोकानां कीर्तिवर्धनम् । लोकनाथं महद्भुतं सर्वभूतभवोद्भवम् ॥ १४ ॥ एष
मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चे-
न्नरः सदा ॥ १५ ॥ परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद् ब्रह्म
परमं यः परायणम् ॥ १६ ॥ पवित्राणां पवित्रं यो मङ्गलानां च मङ्गळम् । दैवतं
देवतानां च भूतानां योऽव्ययः पिता ॥ १७ ॥ यतः सर्वाणि भूतानि भव
न्त्यादियुगागमे । यस्मिंश्च प्रळयं यान्ति पुनरेव युगक्षये ॥ १८ ॥ तस्य
लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्रं मे श्रृणु पापभया-
पहम् ॥ १९ ॥ यानि नामानि गौणानि विख्यातानि महात्मनः । ॠषिभिः
परिगीतानि तानि वक्ष्यामि भूतये ॥ २० ॥ ॠषिर्नाम्नां सहस्रस्य
वेदव्यासो महामुनिः । छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ २१ ॥
अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः । त्रिसामा हृदयं तस्य शान्त्यर्थे
विनियुज्यते ॥ २२ ॥ विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ।
अनेकरूपदैत्यान्तं नमामि पुरुषोत्तमम् ॥ २३ ॥
 
अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य श्रीवेदव्यासो
भगवानृषिः। अनुष्टुप् छन्दः । श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो
देवता । अमृतांशूद्भवो भानुरिति बीजम् । देवकीनन्दनस्स्रष्टेति शक्तिः ।
उद्भवः क्षोभणो देव इति परमो मन्त्रः । शङ्खभृन्नन्दकी चक्रीति कीलकम् ।
शार्ङ्गधन्वा गदाधर इत्यस्त्रम् । रथाङ्गपाणिरक्षोभ्य इयि नेत्रम् । त्रिसामा
सामगस्सामेति कवचम् । आनन्दं परब्रह्मेति योनिः । ऋतुस्सुदर्शनः
काल इति दिग्बन्धः । श्रीविश्वरूप इति ध्यानम् । श्रीमहाविष्णुप्रीत्यर्थे
जपे विनियोगः ॥ ध्यानम् ॥ क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सै-
कते मौक्तिकानां मालाक्लप्तासनस्थ: स्पटिकमणिनिभैर्मौक्तिकैर्मण्डि-
ताङ्गः । शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूवर्षैरानन्दी नः पुनीया-
दरिनलिनगदाशङ्खपाणिर्मुकुन्दः ॥ भूः पादौ यस्य नाभिर्वियदसुरनिल-
श्चन्द्रसूर्यौ च नेत्रे कर्णावाशाश्शिरो द्यौर्मुखमपि दहनो यस्य वास्तेय-
मब्धिः । अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैश्चित्रं
रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ॥ शान्ताकारं भुजगशयनं
पद्मनाभं सुरेशं विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मी-
कान्तं कमलनयनं योगिहृद्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैक-
नाथम् ॥ मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।