This page has been fully proofread once and needs a second look.


 
श्रीविष्णुसहस्रनामस्तोत्रम्
 
लोकानां कीर्तिवर्धनम् । लोकनाथं महद्भुतं सर्वभूतभवोद्भवम् ॥ १४ ॥ एष

मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चे-

न्नरः सदा ॥ १५ ॥ परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद् ब्रह्म

परमं यः परायणम् ॥ १६ ॥ पवित्राणां पवित्रं यो मङ्गलानां च मङ्गळम् । दैवतं

देवतानां च भूतानां योऽव्ययः पिता ॥ १७ ॥ यतः सर्वाणि भूतानि भव

न्त्यादियुगागमे । यस्मिंश्च प्रळयं यान्ति पुनरेव युगक्षये ॥ १८ ॥ तस्य

लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्रं मे श्रृणु पापभया-

पहम् ॥ १९ ॥ यानि दानामानि गौणानि विख्यातानि महात्मनः । षिभिः

परिगीतानि तानि वक्ष्यामि भूतये ॥ २० ॥ षिर्नाम्नां सहस्रस्य

वेदव्यासो महामुनिः । छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ २१ ॥

अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः । त्रिसामा हृदयं तस्य शान्त्यर्थे

विनियुज्यते ॥ २२ ॥ विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ।

अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमम् ॥ २३ ॥
 

 
अस्य श्रीविष्णोर्दिव्यसहस्त्रनामस्तोत्रमहामन्त्रस्य श्रीवेदव्यासो

भगवानृषिः। अनुष्टुप् छन्दः । श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो

देवता । अमृतांशूद्भवो भानुरिति बीजम् । देवकीनन्दनस्स्रष्टेति शक्तिः ।

उद्भवः क्षोभणो देव इति परमो मन्त्रः । शङ्खभृन्नन्दकी चक्रीति कीलकम् ।

शार्ङ्गधन्वा गदाधर इत्यस्त्रम् । रथाङ्गपाणिरक्षोभ्य इयि नेत्रम् । त्रिसामा

सामगस्सामेति कवचम् । आनन्दं परब्रह्मेति योनिः । ऋतुस्सुदर्शनः

काल इति दिग्बन्धः । श्रीविश्वरूप इति ध्यानम् । श्रीमहाविष्णुप्रीत्यर्थे

जपे विनियोगः ॥ ध्यानम् ॥ क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सेसै-

कते मौक्तिकानां मालाक्लप्तासनस्थ: स्पटिकमणिनि भै र्मौक्तिकैर्मण्डि-

ताङ्गः । शुभ्रैरभैरद्धभैभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूपवर्षैरानन्दी नः पुनीया-

दरिनलिनगदाशङ्खपाणिर्मुकुन्दः ॥ भूः पादौ यस्य नाभिर्वियद सुरनिल-

श्
चन्द्रसूर्यौ च नेत्रे कर्णावाशारिशश्शिरो द्यौर्मुखमपि दहनो यस्य वास्तेय-
मन्

मब्
धिः । अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगि गन्धर्व दै त्यैश्चित्रं

रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ॥ शान्ताकारं भुजगशयनं

पद्मनाभं सुरेशं विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मी-

कान्तं कमलनयनं योगिहृद्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैक-

नाथम् ॥ मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।