This page has been fully proofread once and needs a second look.

श्रीः ॥
 

 
गुरुभ्यो नमः

श्रीपरमात्मने नमः ॥
 

 
श्री विष्णुसहस्रनामस्तोत्रम्
 

 
श्रीभट्ट
 
पराशरभाष्यानुसारिनिरुक्तिसहितम्
 

 
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसैन्नवदनं ध्यायेत्

सर्वविघ्नोपशान्तये ॥ १ ॥ यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम् ।

विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २ ॥ व्यासं वसिष्ठनप्तारं

शक्ते: पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ३ ॥

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय

नमो नमः ॥ श्रविकाराय शुद्धाय नित्याय परमात्मने । सबैदैकरूपरूपाय

विष्णवे सर्वजिष्णवे ॥ ५ ॥ यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।

विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६ ॥ ( नमः समस्तभूताना-

मादिभूताय भूभृताम् । अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥७॥)

श्र नमो विष्णवे प्रभविष्णवे ॥
 
-
 

 
श्रीवैशम्पायन उवाच - श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।

युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥८॥ युधिष्ठिर उवाच । किमेकं

दैवतं लोके किं वाऽप्येकं परायणम् । स्तुवन्तः कं कमर्चन्तः प्राप्नुयु-
मनि
र्मानवाः शुभम् ॥ ९ ॥ को धर्मः सर्वधर्माणां भवतः परमो मतः । किं

जपन् मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ १० ॥ श्रीभीष्म उवाच-

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् । स्तुवन्नामसहस्रेण पुरुषस्सततो-

त्थितः ॥ ११ ॥ तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् । ध्यायन् स्तुव-

नमस्यंश्च यजमानस्तमेव च ॥ १२ ॥ अनादिनिधनं विष्णुं सर्वलोकमहेश्व-

रम् । लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् । ब्रह्मण्यं सर्वधर्मसं